Sarga 15: Indrajit and Vibhīṣaṇa Dispute
इन्द्रजिद्विभीषणविवादः
indrajidvibhīṣaṇavivādaḥ — word-by-word gloss for all 14 shlokas.
Jump to a shloka · 14 in this sarga
बृहस्पतेस्तुल्यमतेर्वचस्तन्निशम्य यत्नेन विभीषणस्य । ततो महात्मा वचनं बभाषे तत्रेन्द्रजिन्नैरृतयोधमुख्यः ।।6.15.1।।
Meaning
किं नाम ते तात कनिष्ठवाक्यमनर्थकं चैव सुभीतवच्च । अस्मिन्कुले योऽपि भवेन्न जातः सोऽपीदृशं नैव वदेन्न कुर्यात् ।।6.15.2।।
Meaning
सत्त्वेन वीर्येण पराक्रमेण शौर्येण धैर्येण च तेजसा च । एकः कुलेऽस्मिन्पुरुषो विमुक्तो विभीषणस्तात कनिष्ठ एषः ।।6.15.3।।
Meaning
किं नाम तौ राक्षस राजपुत्रावस्माकमेकेन हि राक्षसेन । सुप्राकृतेनापि रणे निहन्तुं शक्यौ कुतो भीषयसे स्म भीरो ।।6.15.4।।
Meaning
त्रिलोकनाथो ननु देवराजः शक्रो मया भूमितले निविष्टः । भयार्दिताश्चापि दिशः प्रपन्नाः सर्वे तथा देवगणाः समग्राः ।।6.15.5।।
Meaning
ऐरावतो विस्वरमुन्नदन्स निपातितो भूमितले मया तु । निकृष्य दन्तौ तु मया प्रसह्य वित्रासिता देवगणाः समग्राः ।।6.15.6।।
Meaning
सोऽहं सुराणामपि दर्पहन्ता दैत्योत्तमानामपि शोकदाता । कथं नरेन्द्रात्मजयोर्न शक्तो मनुष्ययोः प्राकृतयोः सुवीर्यः ।।6.15.7।।
Meaning
अथेन्द्रकल्पस्य दुरासदस्य महौजसस्तद्वचनं निशम्य । ततो महार्थं वचनं बभाषे विभीषणः शस्त्रभृतां वरिष्ठः ।।6.15.8।।
Meaning
न तात मन्त्रे तव निश्चयोऽस्ति बालस्त्वमद्याप्यविपक्वबुद्धिः । तस्मात्त्वया ह्यात्मविनाशनाय वचोऽर्थहीनं बहु विप्रलप्तम् ।।6.15.9।।
Meaning
पुत्रप्रवादेन तु रावणस्य त्वमिन्द्रजिन्मित्रमुखोऽसि शत्रुः । यस्येदृशं राघवतो विनाशं निशम्य मोहादनुमन्यसे त्वम् ।।6.15.10।।
Meaning