Sarga 13: Mahāpārśva's Words Welcomed
महापार्श्ववचोऽभिनन्दनम्
mahāpārśvavaco'bhinandanam — word-by-word gloss for all 21 shlokas.
Jump to a shloka · 21 in this sarga
रावणं क्रुद्धमाज्ञाय महापार्श्वो महाबलः । मुहूर्तमनुसञ्चिन्त्य प्राञ्जलिर्वाक्यमब्रवीत् ।।6.13.1।।
Meaning
यः खल्वपि वनं प्राप्य मृगव्यालसमाकुलम् । न पिबेन्मधु सम्प्राप्तं स नरो बालिशो भवेत् ।।6.13.2।।
Meaning
ईश्वरस्येश्वरः कोऽस्ति तव शत्रुनिबर्हण । रमस्व सह वैदेह्या शत्रूनाक्रम्य मूर्धसु ।।6.13.3।।
Meaning
बलात्कुक्कुटवृत्तेन वर्तस्व सुमहाबल । आक्रम्याक्रम्य सीतां वै तथा भुङ्क्ष्व रमस्व च ।।6.13.4।।
Meaning
लब्धकामस्य ते पश्चादागमिष्यति यद्भयम् । प्राप्तमप्राप्तकालं वा सर्वं प्रतिसहिष्यसि ।।6.13.5।।
Meaning
कुम्भकर्णः सहास्माभिरिन्द्रजिच्च महाबलः । प्रतिषेधयितुं शक्तौ सवज्रमपि वज्रिणम् ।।6.13.6।।
Meaning
उपप्रदानं सान्त्वं वा भेदं वा कुशलैः कृतम् । समतिक्रम्य दण्डेन सिद्धिमर्थेषु रोचय ।।6.13.7।।
Meaning
इह प्राप्तान्वयं सर्वान् शत्रूंस्तव महाबल । वशे शस्त्रप्रपातेन करिष्यामो न संशयः ।।6.13.8।।
Meaning
एवमुक्तस्तदा राजा महापार्श्वेन रावणः । तस्य सम्पूजयन्वाक्यमिदं वचनमब्रवीत् ।।6.13.9।।
Meaning
महापार्श्व निबोध त्वं रहस्यं किञ्चिदात्मनः । चिरवृत्तं तदाख्यास्ये यदवाप्तं मया पुरा ।।6.13.10।।
Meaning