Sarga 103: Indra's Chariot and the Fallen Banner
ऐन्द्ररथकेतुपातनम्
aindrarathaketupātanam — word-by-word gloss for all 40 shlokas.
Jump to a shloka · 40 in this sarga
लक्ष्मणेन तु तद्वाक्यमुक्तं श्रुत्वा स राघवः । सन्दधे परवीरघ्नो धनुरादाय वीर्यवान् ।।6.103.1।।
Meaning
रावणाय शरान्घोरान्विससर्ज चमूमुखे । अथान्यं रथमारुह्य रावणो राक्षसाधिपः ।।6.103.2।।
Meaning
अभ्यद्रवत काकुत्स्थं स्वर्भानुरिव भास्करम् । दशग्रीवो रथस्थस्तु रामं वज्रोपमैः शरैः ।।6.103.3।।
Meaning
आजघान महाघोरैर्धाराभिरिव तोयदः । दीप्तपावकसङ्काशैः शरैः काञ्चनभूषणैः ।।6.103.4।।
Meaning
निर्बिभेद रणे रामो दशग्रीवं समाहितम् । भूमौ स्थितस्य रामस्य रथस्थस्य च रक्षसः ।।6.103.5।।
Meaning
न समं युद्धमित्याहुर्देवगन्धर्वदानवाः । ततो देववरः श्रीमाञ्श्रुत्वा तेषां वचोऽमृतम् ।।6.103.6।।
Meaning
आहूय मातलिं शक्रो वचनं चेदमब्रवीत् । रथेन मम भूमिष्ठं शीघ्रं याहि रघूत्तमम् ।।6.103.7।।
Meaning
आहूय भूतलं यातः कुरु देवहितं महत् । इत्युक्तो देवराजेन मातलिर्देवसारथिः ।।6.103.8।।
Meaning
प्रणम्य शिरसा देवं ततो वचनमब्रवीत् । शीघ्रं यास्यामि देवेन्द्र सारथ्यं च करोम्यहम् ।।6.103.9।।
Meaning
ततो हयैश्च संयोज्य हरितैः स्यन्दनोत्तमम् । ततः काञ्चनचित्राङ्गः किङ्किणीशतभूषितः ।।6.103.10।।
Meaning