Sarga 107: The Ādityahṛdaya
आदित्यहृदयम्
ādityahṛdayam — word-by-word gloss for all 31 shlokas.
Jump to a shloka · 31 in this sarga
ततो युद्धपरिश्रान्तं समरे चिन्तया स्थितम् । रावणं चाग्रतो दृष्ट्वा युद्धाय समुपस्थितम् ।।6.107.1।।
Meaning
दैवतैश्च समागम्य द्रष्टुमभ्यागतो रणम् । उपागम्याब्रवीद्राममगस्त्यो भगवानृषिः ।।6.107.2।।
Meaning
राम राम महाबाहो शृणु गुह्यं सनातनम् । येन सर्वानरीन्वत्स समरे विजयिष्यसि ।।6.107.3।।
Meaning
आदित्यहृदयं पुण्यं सर्वशत्रुविनाशनम् । जयावहं जपेन्नित्यमक्षय्यं परमं शिवम् ।।6.107.4।।
Meaning
सर्वमङ्गलमङ्गल्यं सर्वपापप्रणाशनम् । चिन्ताशोकप्रशमनमायुर्वर्धनमुत्तमम् ।।6.107.5।।
Meaning
रश्मिमन्तं समुद्यन्तं देवासुरनमस्कृतम् । पूजयस्व विवस्वन्तं भास्करं भुवनेश्वरम् ।।6.107.6।।
Meaning
सर्वदेवात्मको ह्येष तेजस्वी रश्मिभावनः । एष देवासुरगणांल्लोकान्पाति गभस्तिभिः ।।6.107.7।।
Meaning
एष ब्रह्मा च विष्णुश्च शिवः स्कन्दः प्रजापतिः । महेन्द्रो धनदः कालो यमः सोमो ह्यपां पतिः ।।6.107.8।।
Meaning
पितरो वसवः साध्या ह्यश्विनौ मरुतो मनुः । वायुर्वह्निः प्रजाप्राण ऋतुकर्ता प्रभाकरः ।।6.107.9।।
Meaning
आदित्यः सविता सूर्यः खगः पूषा गभस्तिमान् । सुवर्णसदृशो भानुर्हिरण्यरेता दिवाकरः ।।6.107.10।।
Meaning