Sarga 102: Lakṣmaṇa Revived
लक्ष्मणसञ्जीवनम्
lakṣmaṇasañjīvanam — word-by-word gloss for all 57 shlokas.
Jump to a shloka · 57 in this sarga
शक्त्या विनिहतं दृष्ट्वा रावणेन बलीयसा । लक्ष्मणं समरे शूरं रुधिरौघपरिप्लुतम् ।।6.102.1।।
Meaning
स दत्त्वा तुमुलं युद्धं रावणस्य दुरात्मनः । विसृजन्नेव बाणौघान्सुषेणं वाक्यमब्रवीत् ।।6.102.2।।
Meaning
एष रावणवीर्येण लक्ष्मणः पतितः क्षितौ । सर्पवद्वेष्टते वीरो मम शोकमुदीरयन् ।।6.102.3।।
Meaning
शोणितार्द्रमिमं वीरं प्राणैरिष्टतमं मम । पश्यतो मम का शक्तिर्योद्धुं पर्याकुलात्मनः ।।6.102.4।।
Meaning
अयं स समरश्लाघी भ्राता मे शुभलक्षणः । यदि पञ्चत्वमापन्नः प्राणैर्मे किं सुखेन च ।।6.102.5।।
Meaning
लज्जतीव हि मे वीर्यं भ्रश्यतीव कराद्धनुः । सायका व्यवसीदन्ति दृष्टिर्बाष्पवशं गता ।।6.102.6।।
Meaning
अवसीदन्ति गात्राणि स्वप्नयाने नृणामिव । चिन्ता मे वर्धते तीव्रा मुमूर्षा चोपजायते ।।6.102.7।।
Meaning
भ्रातरं निहतं दृष्ट्वा रावणेन दुरात्मना । विनिष्टनन्तं दुःखार्तं मर्मण्यभिहतं भृशम् ।।6.102.8।।
Meaning
राघवो भ्रातरं दृष्ट्वा प्रियं प्राणं बहिश्चरम् । दुःखेन महताविष्टो ध्यानशोकपरायणः ।।6.102.9।।
Meaning
परं विषादमापन्नो विललापाकुलेन्द्रियः । न हि युद्धेन मे कार्यं नैव प्राणैर्न सीतया ।।6.102.10।।
Meaning