Sarga 123: Indra's Boon
इन्द्रवरदानम्
indravaradānam — word-by-word gloss for all 24 shlokas.
Jump to a shloka · 24 in this sarga
प्रतियाते तु काकुत्स्थे महेन्द्रः पाकशासनः । अब्रवीत्परमप्रीतो राघवं प्राञ्जलिं स्थितम् ।।6.123.1।।
Meaning
अमोघं दर्शनं राम तवास्माकं परन्तप । प्रीतियुक्ताः स्म तेन त्वं ब्रूहि यन्मनसेच्छसि ।।6.123.2।।
Meaning
एवमुक्तस्तु काकुत्स्थः प्रत्युवाच कृताञ्जलिः । लक्ष्मणेन सह भ्रात्रा सीतया सह भार्यया । सुप्रसन्नमना हृष्टो वचनं प्राह राघवः ।।6.123.3।।
Meaning
यदि प्रीतिः समुत्पन्ना मयि सर्वसुरेश्वर । वक्ष्यामि कुरु ते सत्यं वचनं वदतां वर ।।6.123.4।।
Meaning
मम हेतोः पराक्रान्ता ये गता यमसादनम् । ते सर्वे जीवितं प्राप्य समुत्तिष्ठन्तु वानराः ।।6.123.5।।
Meaning
मत्कृते विप्रयुक्ता ये पुत्रैर्दारैश्च वानराः । तान्प्रीतमनसः सर्वान्द्रष्टुमिच्छामि मानद । विक्रान्ताश्चापि शूराश्च न मृत्युं गणयन्ति च ।।6.123.6।।
Meaning
कृतयत्ना विपन्नाश्च जीवयैनान्पुरन्दर । मत्प्रियेष्वभियुक्ताश्च न मृत्युं गणयन्ति च ।।6.123.7।।
Meaning
त्वत्प्रसादात्समेयुस्ते वरमेतदहं वृणे । नीरुजो निर्व्रणांश्चैव सम्पन्नबलपौरुषान् ।।6.123.8।।
Meaning
गोलाङ्गूलांस्तथैवर्क्षान्द्रष्टुमिच्छामि मानद । अकाले चापि मुख्यानि मूलानि च फलानि च ।।6.123.9।।
Meaning
नद्यश्च विमलास्तत्र तिष्ठेयुर्यत्र वानराः । श्रुत्वा तु वचनं तस्य राघवस्य महात्मनः ।।6.123.10।।
Meaning