Sarga 130: Reunion with Bharata
भरतसमागमः
bharatasamāgamaḥ — word-by-word gloss for all 62 shlokas.
Jump to a shloka · 62 in this sarga
श्रुत्वा तु परमानन्दं भरतः सत्यविक्रमः । हृष्टमाज्ञापयामास शत्रुघ्नं परवीरहा ।।6.130.1।।
Meaning
दैवतानि च सर्वाणि चैत्यानि नगरस्य च । सुगन्धमाल्यैर्वादित्रैरर्चन्तु शुचयो नराः ।।6.130.2।।
Meaning
सूताः स्तुतिपुराणज्ञाः सर्वे वैतालिकास्तथा । सर्वे वादित्रकुशला गणकाश्चापि सङ्घशः ।।6.130.3।।
Meaning
अभिनिर्यान्तु रामस्य द्रष्टुं शशिनिभं मुखम् । भरतस्य वचः श्रुत्वा शत्रुघ्नः परवीरहा ।।6.130.4।।
Meaning
विष्टीरनेकसाहस्राश्चोदयामास वीर्यवान् । समीकुरुत निम्नानि विषमाणि समानि च ।।6.130.5।।
Meaning
स्थलानि च निरस्यन्तां नन्दिग्रामादितः परम् । सिञ्चन्तु पृथिवीं कृत्स्नां हिमशीतेन वारिणा ।।6.130.6।।
Meaning
ततोऽभ्यवकिरन्त्वन्ये लाजैः पुष्पैश्च सर्वशः । समुच्छ्रितपताकास्तु रथ्याः पुरवरोत्तमे ।।6.130.7।।
Meaning
शोभयन्तु च वेश्मानि सूर्यस्योदयनं प्रति । स्रग्दामभिर्मुक्तपुष्पैः सुगन्धैः पञ्चवर्णकैः ।।6.130.8।।
Meaning
राजमार्गमसम्बाधं किरन्तु शतशो नराः । ततस्तच्छासनं श्रुत्वा शत्रुघ्नस्य मुदान्विताः । राजदारास्तथाऽमात्याः सैन्याः सेनागणाङ्गनाः ।।6.130.9।।
Meaning
ब्राह्मणाश्च सराजन्याः श्रेणीमुख्यास्तथा गणाः । धृष्टिर्जयन्तो विजयः सिद्धार्थो ह्यर्थसाधकः ।।6.130.10।।
Meaning