Sarga 66: The Monkeys Rallied
वानरपर्यवस्थापनम्
vānaraparyavasthāpanam — word-by-word gloss for all 34 shlokas.
Jump to a shloka · 34 in this sarga
स लङ्घयित्वा प्राकारं गिरिकूटोपमो महान् । निर्ययौ नगरात्तूर्णं कुम्भकर्णो महाबलः ।।6.66.1।।
Meaning
स ननाद महानादं समुद्रमभिनादयन् । जनयन्निव निर्घातान्विधमन्निव पर्वतान् ।।6.66.2।।
Meaning
तमवध्यं मघवता यमेन वरुणेन वा । प्रेक्ष्य भीमाक्षमायान्तं वानरा विप्रदुद्रुवुः ।।6.66.3।।
Meaning
तांस्तु विप्रद्रुतान्दृष्ट्वा वालिपुत्रोऽङ्गदोऽब्रवीत् । नलं नीलं गवाक्षं च कुमुदं च महाबलम् ।।6.66.4।।
Meaning
आत्मानमत्र विस्मृत्य वीर्याण्यभिजनानि च । क्व गच्छत भयत्रस्ताः प्राकृता हरयो यथा ।।6.66.5।।
Meaning
साधु सौम्या निवर्तध्वं किं प्राणान्परिरक्षथ । नालं युद्धाय वै रक्षो महतीयं विभीषिका ।।6.66.6।।
Meaning
महतीमुत्थितामेनां राक्षसानां विभीषिकाम् । विक्रमाद्विधमिष्यामो निवर्तध्वं प्लवङ्गमाः ।।6.66.7।।
Meaning
कृच्छ्रेण तु समाश्वस्य सङ्गम्य च ततस्ततः । वृक्षाद्रिहस्ता हरयः सम्प्रतस्थू रणाजिरम् ।।6.66.8।।
Meaning
ते निवृत्य तु सङ्क्रुद्धाः कुम्भकर्णं वनौकसः । निजघ्नुः परमक्रुद्धाः समदा इव कुञ्जराः ।।6.66.9।।
Meaning
प्रांशुभिर्गिरिशृङ्गैश्च शिलाभिश्च महाबलः । पादपैः पुष्पिताग्रैश्च हन्यमानो न कम्पते ।।6.66.10।।
Meaning