Sarga 33: Saramā Comforts Sītā
सरमासमाश्वासनम्
saramāsamāśvāsanam — word-by-word gloss for all 38 shlokas.
Jump to a shloka · 38 in this sarga
सीतां तु मोहितां दृष्ट्वा सरमा नाम राक्षसी । आससादाथ वैदेहीं प्रियां प्रणयिनी सखीम् ।।6.33.1।।
Meaning
मोहितां राक्षसेन्द्रेण सीतां परमदुःखिताम् । आश्वासयामास तदा सरमा मृदुभाषिणी ।।6.33.2।।
Meaning
सा हि तत्र कृता मित्रं सीतया रक्ष्यमाणया । रक्षन्ती रावणादिष्टा सानुक्रोशा दृढव्रता ।।6.33.3।।
Meaning
सा ददर्श ततः सीतां सरमा नष्टचेतनाम् । उपावृत्योत्थितां ध्वस्तां वडवामिव पांसुलाम् ।।6.33.4।।
Meaning
तां समाश्वासयामास सखीस्नेहेन सुव्रता । समाश्वसिहि वैदेहि माभूत्ते मनसो व्यथा ।।6.33.5।।
Meaning
उक्ता यद्रावणेन त्वं प्रत्युक्तं च स्वयं त्वया । सखीस्नेहेन तद्भीरु मया सर्वं प्रतिश्रुतम् ।।6.33.6।।
Meaning
लीनया गगने शून्ये भयमुत्सृज्य रावणात् । तव हेतोर्विशालाक्षि न हि मे जीवितं प्रियम् ।।6.33.7।।
Meaning
स सम्भ्रान्तश्च निष्क्रान्तो यत्कृते राक्षसाधिपः । तच्च मे विदितं सर्वमभिनिष्क्रम्य मैथिलि ।।6.33.8।।
Meaning
न शक्यं सौप्तिकं कर्तुं रामस्य विदितात्मनः । वधश्च पुरुषव्याघ्रे तस्मिन्नैवोपपद्यते ।।6.33.9।।
Meaning
न त्वेव वानरा हन्तुं शक्याः पादपयोधिनः । सुरा देवर्षभेणेव रामेण हि सुरक्षिताः ।।6.33.10।।
Meaning