Sarga 1: Hanumān Praised
हनूमत्प्रशंसनम्
hanūmatpraśaṃsanam — word-by-word gloss for all 20 shlokas.
Jump to a shloka · 20 in this sarga
श्रुत्वा हनुमतो वाक्यं यथावदभिभाषितम् । रामः प्रीतिसमायुक्तो वाक्यमुत्तरमब्रवीत् ।।6.1.1।।
Meaning
कृतं हनुमता कार्यं सुमहद्भुवि दुर्लभम् । मनसाऽपि यदन्येन न शक्यं धरणीतले ।।6.1.2।।
Meaning
न हि तं परिपश्यामि यस्तरेत महोदधिम् । अन्यत्र गरुडाद्वायोरन्यत्र च हनूमतः ।।6.1.3।।
Meaning
देवदानवयक्षाणां गन्धर्वोरगरक्षसाम् । अप्रधृष्यां पुरीं लङ्कां रावणेन सुरक्षिताम् ।।6.1.4।।
Meaning
यो वीर्यबलसम्पन्नो द्विषद्भिरनिवारितः । प्रविष्टः सत्त्वमाश्रित्य श्वसन् को नाम निष्क्रमेत् ।।6.1.5।।
Meaning
को विशेत्सुदुराधर्षां राक्षसैश्च सुरक्षिताम् । यो वीर्यबलसम्पन्नो न समः स्याद्धनूमतः ।।6.1.6।।
Meaning
भृत्यकार्यं हनुमता सुग्रीवस्य कृतं महत् । एवं विधाय स्वबलं सदृशं विक्रमस्य च ।।6.1.7।।
Meaning
यो हि भृत्यो नियुक्तः सन् भर्त्रा कर्मणि दुष्करे । कुर्यात्तदनुरागेण तमाहुः पुरुषोत्तमम् ।।6.1.8।।
Meaning
नियुक्तो यः परं कार्यं न कुर्यान्नृपतेः प्रियम् । भृत्यो युक्तः समर्थश्च तमाहुर्मध्यमं नरम् ।।6.1.9।।
Meaning
नियुक्तो नृपतेः कार्यं न कुर्याद्यः समाहितः । भृत्यो युक्तः समर्थश्च तमाहुः पुरुषाधमम् ।।6.1.10।।
Meaning