Sarga 16: Vibhīṣaṇa Reviled
विभीषणाक्रोशः
vibhīṣaṇākrośaḥ — word-by-word gloss for all 27 shlokas.
Jump to a shloka · 27 in this sarga
सुनिविष्टं हितं वाक्यमुक्तवन्तं विभीषणम् । अब्रवीत्परुषं वाक्यं रावणः कालचोदितः ।।6.16.1।।
Meaning
वसेत्सह सपत्नेन क्रुद्धेनाशीविषेण वा । न तु मित्रप्रवादेन संवसेच्छत्रुसेविना ।।6.16.2।।
Meaning
जानामि शीलं ज्ञातीनां सर्वलोकेषु राक्षस । हृष्यन्ति व्यसनेष्वेते ज्ञातीनां ज्ञातयः सदा ।।6.16.3।।
Meaning
प्रधानं साधनं वैद्यं धर्मशीलं च राक्षस । ज्ञातयो ह्यवमन्यन्ते शूरं परिभवन्ति च ।।6.16.4।।
Meaning
नित्यमन्योन्यसंहृष्टा व्यसनेष्वाततायिनः । प्रच्छन्नहृदया घोरा ज्ञातयस्तु भयावहाः ।।6.16.5।।
Meaning
श्रूयन्ते हस्तिभिर्गीताः श्लोकाः पद्मवने क्वचित् । पाशहस्तान्नरान्दृष्ट्वा शृणु तान्गदतो मम ।।6.16.6।।
Meaning
नाग्निर्नान्यानि शस्त्राणि न नः पाशा भयावहाः । घोराः स्वार्थप्रयुक्तास्तु ज्ञातयो नो भयावहाः ।।6.16.7।।
Meaning
उपायमेते वक्ष्यन्ति ग्रहणे नात्र संशयः । कृत्स्नाद्भयाज्ज्ञातिभयं सुकष्टं विदितं च नः ।।6.16.8।।
Meaning
विद्यते गोषु सम्पन्नं विद्यते ब्राह्मणे दमः । विद्यते स्त्रीषु चापल्यं विद्यते ज्ञातितो भयम् ।।6.16.9।।
Meaning
ततो नेष्टमिदं सौम्य यदहं लोकसत्कृतः । ऐश्वर्येणाभिजातश्च रिपूणां मूर्ध्नि च स्थितः ।।6.16.10।।
Meaning