Sarga 48: Sītā Consoled
सीताश्वासनम्
sītāśvāsanam — word-by-word gloss for all 37 shlokas.
Jump to a shloka · 37 in this sarga
भर्तारं निहतं दृष्ट्वा लक्ष्मणं च महाबलम् । विललाप भृशं सीता करुणं शोककर्शिता ।।6.48.1।।
Meaning
ऊचुर्लक्षणिनो ये मां पुत्रिण्यविधवेति च । तेऽद्य सर्वे हते रामे ज्ञानिनोऽनृतवादिनः ।।6.48.2।।
Meaning
यज्वनो महिषीं ये मामूचुः पत्नीं च सत्रिणः । तेऽद्य सर्वे हते रामे ज्ञानिनोऽनृतवादिनः ।।6.48.3।।
Meaning
ऊचुः संश्रवणे ये मां द्विजाः कार्तान्तिकाः शुभाम् । तेऽद्य सर्वे हते रामे ज्ञानिनोऽनृतवादिनः ।।6.48.4।।
Meaning
वीरपार्थिवपत्नी त्वं ये धन्येति च मां विदुः । तेऽद्य सर्वे हते रामे ज्ञानिनोऽनृतवादिनः ।।6.48.5।।
Meaning
इमानि खलु पद्मानि पादयोर्यैः किल स्त्रियः । आधिराज्येऽभिषिच्यन्ते नरेन्द्रैः पतिभिः सह ।।6.48.6।।
Meaning
वैधव्यं यान्ति यैर्नार्यो लक्षणैर्भाग्यदुर्लभाः । नात्मनस्तानि पश्यामि पश्यन्ती हतलक्षणा ।।6.48.7।।
Meaning
सत्यनामानि पद्मानि स्त्रीणामुक्तानि लक्षणैः । तान्यद्य निहते रामे वितथानि भवन्ति मे ।।6.48.8।।
Meaning
केशाः सूक्ष्माः समा नीला भ्रुवौ चासङ्गते मम । वृत्ते चारोमशे जङ्घे दन्ताश्चाविरला मम ।।6.48.9।।
Meaning
शङ्खे नेत्रे करौ पादौ गुल्फावूरू च मे चितौ । अनुवृत्तनखाः स्निग्धाः समाश्चाङ्गुलयो मम ।।6.48.10।।
Meaning