Sarga 17: Vibhīṣaṇa Seeks Refuge

विभीषणशरणागतिनिवेदनम्

vibhīṣaṇaśaraṇāgatinivedanam — word-by-word gloss for all 68 shlokas.

Page 1 of 768 shlokas in this sarga (verified max-across-sources)
Shloka 17.1Word-by-word available

इत्युक्त्वा परुषं वाक्यं रावणं रावणानुजः । आजगाम मुहूर्तेन यत्र रामः सलक्ष्मणः ।।6.17.1।।

Meaning

Shloka 17.2Word-by-word available

तं मेरुशिखराकारं दीप्तामिव शतह्रदाम् । गगनस्थं महीस्थास्ते ददृशुर्वानराधिपाः ।।6.17.2।।

Meaning

Shloka 17.3Word-by-word available

स हि मेघाचलप्रख्यो वज्रायुधसमप्रभः । वरायुधधरो वीरो दिव्याभरणभूषितः ।।6.17.3।।

Meaning

Shloka 17.4Word-by-word available

ये चाप्यनुचरास्तस्य चत्वारो भीमविक्रमाः । तेऽपि वर्मायुधोपेता भूषणैश्चापि भूषिताः ।।6.17.4।।

Meaning

Shloka 17.5Word-by-word available

तमात्मपञ्चमं दृष्ट्वा सुग्रीवो वानराधिपः । वानरैः सह दुर्धर्षश्चिन्तयामास बुद्धिमान् ।।6.17.5।।

Meaning

Shloka 17.6Word-by-word available

चिन्तयित्वा मुहूर्तं तु वानरांस्तानुवाच ह । हनुमत्प्रमुखान्सर्वानिदं वचनमुत्तमम् ।।6.17.6।।

Meaning

Shloka 17.7Word-by-word available

एष सर्वायुधोपेतश्चतुर्भिः सह राक्षसैः । राक्षसोऽभ्येति पश्यध्वमस्मान्हन्तुं न संशयः ।।6.17.7।।

Meaning

Shloka 17.8Word-by-word available

सुग्रीवस्य वचः श्रुत्वा सर्वे ते वानरोत्तमाः । सालानुद्यम्य शैलांश्च इदं वचनमब्रुवन् ।।6.17.8।।

Meaning

Shloka 17.9Word-by-word available

शीघ्रं व्यादिश नो राजन्वधायैषां दुरात्मनाम् । निपतन्ति हता यावद्धरण्यामल्पतेजसः ।।6.17.9।।

Meaning

Shloka 17.10Word-by-word available

तेषां सम्भाषमाणानामन्योन्यं स विभीषणः । उत्तरं तीरमासाद्य खस्थ एव व्यतिष्ठत ।।6.17.10।।

Meaning