Sarga 23: The March on Laṅkā

लङ्काभिषेणनम्

laṅkābhiṣeṇanam — word-by-word gloss for all 16 shlokas.

Jump to a shloka · 16 in this sarga

Page 1 of 216 shlokas in this sarga (verified max-across-sources)
Shloka 23.1Word-by-word available

निमित्तानि निमित्तज्ञो दृष्ट्वा लक्ष्मणपूर्वजः । सौमित्रिं सम्परिष्वज्य इदं वचनमब्रवीत् ।।6.23.1।।

Meaning

Shloka 23.2Word-by-word available

परिगृह्योदकं शीतं वनानि फलवन्ति च । बलौघं संविभज्येमं व्यूह्य तिष्ठेम लक्ष्मण ।।6.23.2।।

Meaning

Shloka 23.3Word-by-word available

लोकक्षयकरं भीमं भयं पश्याम्युपस्थितम् । निबर्हणं प्रवीराणामृक्षवानररक्षसाम् ।।6.23.3।।

Meaning

Shloka 23.4Word-by-word available

वाताश्च कलुषा वान्ति कम्पते च वसुन्धरा । पर्वताग्राणि वेपन्ते पतन्ति च महीरुहाः ।।6.23.4।।

Meaning

Shloka 23.5Word-by-word available

मेघाः क्रव्यादसङ्काशाः परुषाः परुषस्वनाः । क्रूराः क्रूरं प्रवर्षन्ति मिश्रं शोणितबिन्दुभिः ।।6.23.5।।

Meaning

Shloka 23.6Word-by-word available

रक्तचन्दनसङ्काशा सन्ध्या परमदारुणा । ज्वलतः प्रपतत्येतदादित्यादग्निमण्डलम् ।।6.23.6।।

Meaning

Shloka 23.7Word-by-word available

दीना दीनस्वराः क्रूराः सर्वतो मृगपक्षिणः । प्रत्यादित्यं विनर्दन्ति जनयन्तो महद्भयम् ।।6.23.7।।

Meaning

Shloka 23.8Word-by-word available

रजन्यामप्रकाशस्तु सन्तापयति चन्द्रमाः । कृष्णरक्तांशुपर्यन्तो लोकक्षय इवोदितः ।।6.23.8।।

Meaning

Shloka 23.9Word-by-word available

ह्रस्वो रूक्षोऽप्रशस्तश्च परिवेषः सुलोहितः । आदित्ये विमले नीलं लक्ष्म लक्ष्मण दृश्यते ।।6.23.9।।

Meaning

Shloka 23.10Word-by-word available

रजसा महता चापि नक्षत्राणि हतानि च । युगान्तमिव लोकानां पश्य शंसन्ति लक्ष्मण ।।6.23.10।।

Meaning