Sarga 49: Rāma's Despair

रामनिर्वेदः

rāmanirvedaḥ — word-by-word gloss for all 32 shlokas.

Page 1 of 432 shlokas in this sarga (verified max-across-sources)
Shloka 49.1Word-by-word available

घोरेण शरबन्धेन बद्धौ दशरथात्मजौ । निःश्वसन्तौ यथा नागौ शयानौ रुधिरोक्षितौ ।।6.49.1।।

Meaning

Shloka 49.2Word-by-word available

सर्वे ते वानरश्रेष्ठाः ससुग्रीवा महाबलाः । परिवार्य महात्मानौ तस्थुः शोकपरिप्लुताः ।।6.49.2।।

Meaning

Shloka 49.3Word-by-word available

एतस्मिन्नन्तरे रामः प्रत्यबुध्यत वीर्यवान् । स्थिरत्वात्सत्त्वयोगाच्च शरैः सन्दानितोऽपि सन् ।।6.49.3।।

Meaning

Shloka 49.4Word-by-word available

ततो दृष्ट्वा सरुधिरं विषण्णं गाढमर्पितम् । भ्रातरं दीनवदनं पर्यदेवयदातुरः ।।6.49.4।।

Meaning

Shloka 49.5Word-by-word available

किं नु मे सीतया कार्यं किं कार्यं जीवितेन वा । शयानं योऽद्य पश्यामि भ्रातरं युधि निर्जितम् ।।6.49.5।।

Meaning

Shloka 49.6Word-by-word available

शक्या सीतासमा नारी मर्त्यलोके विचिन्वता । न लक्ष्मणसमो भ्राता सचिवः साम्परायिकः ।।6.49.6।।

Meaning

Shloka 49.7Word-by-word available

परित्यक्ष्याम्यहं प्राणं वानराणां तु पश्यताम् । यदि पञ्चत्वमापन्नः सुमित्रानन्दवर्धनः ।।6.49.7।।

Meaning

Shloka 49.8Word-by-word available

किं नु वक्ष्यामि कौसल्यां मातरं किं नु कैकयीम् । कथमम्बां सुमित्रां च पुत्रदर्शनलालसाम् ।।6.49.8।।

Meaning

Shloka 49.9Word-by-word available

विवत्सां वेपमानां च क्रोशन्तीं कुररीमिव । कथमाश्वासयिष्यामि यदा यास्यामि तं विना ।।6.49.9।।

Meaning

Shloka 49.10Word-by-word available

कथं वक्ष्यामि शत्रुघ्नं भरतं च यशस्विनम् । मया सह वनं यातो विना तेन गतः पुनः ।।6.49.10।।

Meaning