Sarga 49: Rāma's Despair
रामनिर्वेदः
rāmanirvedaḥ — word-by-word gloss for all 32 shlokas.
Jump to a shloka · 32 in this sarga
उपालम्भं न शक्ष्यामि सोढुं बत सुमित्रया । इहैव देहं त्यक्ष्यामि न हि जीवितुमुत्सहे ।।6.49.11।।
Meaning
धिङ्मां दुष्कृतकर्माणमनार्यं यत्कृते ह्यसौ । लक्ष्मणः पतितः शेते शरतल्पे गतासुवत् ।।6.49.12।।
Meaning
त्वं नित्यं स विषण्णं मामाश्वासयसि लक्ष्मण । गतासुर्नाद्य शक्नोषि मामार्तमभिभाषितुम् ।।6.49.13।।
Meaning
येनाद्य निहता युद्धे राक्षसा विनिपातिताः । तस्यामेव क्षितौ वीरः स शेते निहतः परैः ।।6.49.14।।
Meaning
शयानः शरतल्पेऽस्मिन् स्वशोणितपरिप्लुतः । शरजालैश्चितो भाति भास्करोऽस्तमिव व्रजन् ।।6.49.15।।
Meaning
बाणाभिहतमर्मत्वान्न शक्नोत्यभिभाषितुम् । रुजा चाब्रुवतोऽप्यस्य दृष्टिरागेण सूच्यते ।।6.49.16।।
Meaning
यथैव मां वनं यान्तमनुयातो महाद्युतिः । अहमप्यनुयास्यामि तथैवैनं यमक्षयम् ।।6.49.17।।
Meaning
इष्टबन्धुजनो नित्यं मां च नित्यमनुव्रतः । इमामद्य गतोऽवस्थां ममानार्यस्य दुर्नयैः ।।6.49.18।।
Meaning
सुरुष्टेनापि वीरेण लक्ष्मणेन न संस्मरे । परुषं विप्रियं वापि श्रावितं तु कदाचन ।।6.49.19।।
Meaning
विससर्जैकवेगेन पञ्चबाणशतानि यः । इष्वस्त्रेष्वधिकस्तस्मात्कार्तवीर्याच्च लक्ष्मणः ।।6.49.20।।
Meaning