Sarga 50: Freed from the Serpent Bonds

नागपाशविमोक्षणम्

nāgapāśavimokṣaṇam — word-by-word gloss for all 65 shlokas.

Page 1 of 765 shlokas in this sarga (verified max-across-sources)
Shloka 50.1Word-by-word available

अथोवाच महातेजा हरिराजो महाबलः । किमियं व्यथिता सेना मूढवातेव नौर्जले ।।6.50.1।।

Meaning

Shloka 50.2Word-by-word available

सुग्रीवस्य वचः श्रुत्वा वालिपुत्रोऽङ्गदोऽब्रवीत् । न त्वं पश्यसि रामं च लक्ष्मणं च महाबलम् ।।6.50.2।।

Meaning

Shloka 50.3Word-by-word available

शरजालाचितौ वीरावुभौ दशरथात्मजौ । शरतल्पे महात्मानौ शयानौ रुधिरोक्षितौ ।।6.50.3।।

Meaning

Shloka 50.4Word-by-word available

अथाब्रवीद्वानरेन्द्रः सुग्रीवः पुत्रमङ्गदम् । नानिमित्तमिदं मन्ये भवितव्यं भयेन तु ।।6.50.4।।

Meaning

Shloka 50.5Word-by-word available

विषण्णवदना ह्येते त्यक्तप्रहरणा दिशः । प्रपलायन्ति हरयस्त्रासादुत्फुल्ललोचनाः ।।6.50.5।।

Meaning

Shloka 50.6Word-by-word available

अन्योन्यस्य न लज्जन्ते न निरीक्षन्ति पृष्ठतः । विप्रकर्षन्ति चान्योन्यं पतितं लङ्घयन्ति च ।।6.50.6।।

Meaning

Shloka 50.7Word-by-word available

एतस्मिन्नन्तरे वीरो गदापाणिर्विभीषणः । सुग्रीवं वर्धयामास राघवं च जयाशिषा ।।6.50.7।।

Meaning

Shloka 50.8Word-by-word available

विभीषणं तं सुग्रीवो दृष्ट्वा वानरभीषणम् । ऋक्षराजं समीपस्थं जाम्बवन्तमुवाच ह ।।6.50.8।।

Meaning

Shloka 50.9Word-by-word available

विभीषणोऽयं सम्प्राप्तो यं दृष्ट्वा वानरर्षभाः । विद्रवन्ति परित्रस्ता रावणात्मजशङ्कया ।।6.50.9।।

Meaning

Shloka 50.10Word-by-word available

शीघ्रमेतान् सुसन्त्रस्तान् बहुधा विप्रधावितान् । पर्यवस्थापयाख्याहि विभीषणमुपस्थितम् ।।6.50.10।।

Meaning