Sarga 6: Rāvaṇa Takes Counsel

रावणमन्त्रणम्

rāvaṇamantraṇam — word-by-word gloss for all 19 shlokas.

Jump to a shloka · 19 in this sarga

Page 1 of 219 shlokas in this sarga (verified max-across-sources)
Shloka 6.1Word-by-word available

लङ्कायां तु कृतं कर्म घोरं दृष्ट्वा भयावहम् । राक्षसेन्द्रो हनुमता शक्रेणेव महात्मना ।।6.6.1।।

Meaning

Shloka 6.2Word-by-word available

अब्रवीद्राक्षसान् सर्वान् ह्रिया किञ्चिदवाङ्मुखः । धर्षिता च प्रविष्टा च लङ्का दुष्प्रसहा पुरी ।।6.6.2।।

Meaning

Shloka 6.3Word-by-word available

तेन वानरमात्रेण दृष्टा सीता च जानकी । प्रासादो धर्षितश्चैत्यः प्रबला राक्षसा हताः ।।6.6.3।।

Meaning

Shloka 6.4Word-by-word available

आकुला च पुरी लङ्का सर्वा हनुमता कृता । किं करिष्यामि भद्रं वः किं वा युक्तमनन्तरम् ।।6.6.4।।

Meaning

Shloka 6.5Word-by-word available

उच्यतां नः समर्थं यत्कृतं च सुकृतं भवेत् । मन्त्रमूलं हि विजयं प्राहुरार्या मनस्विनः ।।6.6.5।।

Meaning

Shloka 6.6Word-by-word available

तस्माद्वै रोचये मन्त्रं रामं प्रति महाबलाः । त्रिविधाः पुरुषा लोके उत्तमाधममध्यमाः ।।6.6.6।।

Meaning

Shloka 6.7Word-by-word available

तेषां तु समवेतानां गुणदोषौ वदाम्यहम् । मन्त्रिभिर्हितसंयुक्तैः समर्थैर्मन्त्रनिर्णये ।।6.6.7।।

Meaning

Shloka 6.8Word-by-word available

मित्रैर्वापि समानार्थैर्बान्धवैरपि वा हितैः । सहितो मन्त्रयित्वा यः कर्मारम्भान् प्रवर्तयेत् ।।6.6.8।।

Meaning

Shloka 6.9Word-by-word available

दैवे च कुरुते यत्नं तमाहुः पुरुषोत्तमम् । एकोऽर्थं विमृशेदेको धर्मे प्रकुरुते मनः ।।6.6.9।।

Meaning

Shloka 6.10Word-by-word available

एकः कार्याणि कुरुते तमाहुर्मध्यमं नरम् । गुणदोषावनिश्चित्य त्यक्त्वा धर्मव्यपाश्रयम् ।।6.6.10।।

Meaning