Sarga 43: Single Combats
द्वन्द्वयुद्धम्
dvandvayuddham — word-by-word gloss for all 47 shlokas.
Jump to a shloka · 47 in this sarga
युद्ध्यतां तु ततस्तेषां वानराणां महात्मनाम् । रक्षसां सम्बभूवाथ बलकोपः सुदारुणः ।।6.43.1।।
Meaning
ते हयैः काञ्चनापीडैर्ध्वजैश्चाग्निशिखोपमैः । रथैश्चादित्यसङ्काशैः कवचैश्च मनोरमैः ।।6.43.2।।
Meaning
निर्ययू राक्षसव्याघ्रा नादयन्तो दिशो दश । राक्षसा भीमकर्माणो रावणस्य जयैषिणः ।।6.43.3।।
Meaning
वानराणामपि चमूर्बृहती जयमिच्छताम् । अभ्यधावत तां सेनां रक्षसां कामरूपिणाम् ।।6.43.4।।
Meaning
एतस्मिन्नन्तरे तेषामन्योन्यमभिधावताम् । रक्षसां वानराणां च द्वन्द्वयुद्धमवर्तत ।।6.43.5।।
Meaning
अङ्गदेनेन्द्रजित्सार्धं वालिपुत्रेण राक्षसः । अयुध्यत महातेजास्त्र्यम्बकेण यथान्तकः ।।6.43.6।।
Meaning
प्रजङ्घेन च सम्पातिर्नित्यं दुर्मर्षणो रणे । जम्बुमालिनमारब्धो हनुमानपि वानरः ।।6.43.7।।
Meaning
सङ्गतः सुमहाक्रोधो राक्षसो रावणानुजः । समरे तीक्ष्णवेगेन मित्रघ्नेन विभीषणः ।।6.43.8।।
Meaning
तपनेन गजः सार्धं राक्षसेन महाबलः । निकुम्भेन महातेजा नीलोऽपि समयुध्यत ।।6.43.9।।
Meaning
वानरेन्द्रस्तु सुग्रीवः प्रघसेन समागतः । सङ्गतः समरे श्रीमान्विरूपाक्षेण लक्ष्मणः ।।6.43.10।।
Meaning