Sarga 65: Kumbhakarṇa Marches Out
कुम्भकर्णाभिषेणनम्
kumbhakarṇābhiṣeṇanam — word-by-word gloss for all 57 shlokas.
Jump to a shloka · 57 in this sarga
स तथोक्तस्तु निर्भर्त्स्य कुम्भकर्णो महोदरम् । अब्रवीद्राक्षसश्रेष्ठं भ्रातरं रावणं ततः ।।6.65.1।।
Meaning
सोऽहं तव भयं घोरं वधात्तस्य दुरात्मनः । रामस्याद्य प्रमार्जामि निर्वैरो हि सुखी भव ।।6.65.2।।
Meaning
गर्जन्ति न वृथा शूरा निर्जला इव तोयदाः । पश्य सम्पाद्यमानं तु गर्जितं युधि कर्मणा ।।6.65.3।।
Meaning
न मर्षयति चात्मानं सम्भावयति नात्मना । अदर्शयित्वा शूरास्तु कर्म कुर्वन्ति दुष्करम् ।।6.65.4।।
Meaning
विक्लवानामबुद्धीनां राज्ञा पण्डितमानिनाम् । शृण्वता सादितमिदं त्वद्विधानां महोदर ।।6.65.5।।
Meaning
युद्धे कापुरुषैर्नित्यं भवद्भिः प्रियवादिभिः । राजानमनुगच्छद्भिः कृत्यमेतद्धि सादितम् ।।6.65.6।।
Meaning
राजशेषा कृता लङ्का क्षीणः कोशो बलं हतम् । राजानमिममासाद्य सुहृच्चिह्नममित्रकम् ।।6.65.7।।
Meaning
एष निर्याम्यहं युद्धमुद्यतः शत्रुनिर्जये । दुर्नयं भवतामद्य समीकर्तुमिहाहवे ।।6.65.8।।
Meaning
एवमुक्तवतो वाक्यं कुम्भकर्णस्य धीमतः । प्रत्युवाच ततो वाक्यं प्रहसन्राक्षसाधिपः ।।6.65.9।।
Meaning
महोदरोऽयं रामात्तु परित्रस्तो न संशयः । न हि रोचयते तात युद्धं युद्धविशारद ।।6.65.10।।
Meaning