Sarga 54: Vajradaṃṣṭra Slain
वज्रदंष्ट्रवधः
vajradaṃṣṭravadhaḥ — word-by-word gloss for all 38 shlokas.
Jump to a shloka · 38 in this sarga
बलस्य च निघातेन अङ्गदस्य जयेन च । राक्षसः क्रोधमाविष्टो वज्रदंष्ट्रो महाबलः ।।6.54.1।।
Meaning
स विस्फार्य धनुर्घोरं शक्राशनिसमस्वनम् । वानराणामनीकानि प्राकिरच्छरवृष्टिभिः ।।6.54.2।।
Meaning
राक्षसाश्चापि मुख्यास्ते रथेषु समवस्थिताः । नानाप्रहरणाः शूराः प्रायुध्यन्त तदा रणे ।।6.54.3।।
Meaning
वानराणां तु शूरा ये सर्वे ते प्लवगर्षभाः । आयुध्यन्त शिलाहस्ताः समवेताः समन्ततः ।।6.54.4।।
Meaning
तत्रायुधसहस्राणि तस्मिन्नायोधने भृशम् । राक्षसाः कपिमुख्येषु पातयांचक्रिरे तदा ।।6.54.5।।
Meaning
वानराश्चापि रक्षस्सु गिरीन्वृक्षान्महाशिलाः । प्रवीराः पातयामासुर्मत्तवारणसन्निभाः ।।6.54.6।।
Meaning
शूराणां युध्यमानानां समरेष्वनिवर्तिनाम् । तद्राक्षसगणानां च सुयुद्धं समवर्तत ।।6.54.7।।
Meaning
प्रभिन्नशिरसः केचिद्भिन्नैः पादैश्च बाहुभिः । शस्त्रैरर्पितदेहास्तु रुधिरेण समुक्षिताः ।।6.54.8।।
Meaning
हरयो राक्षसाश्चैव शेरते गां समाश्रिताः । कङ्कगृध्रबलैराढ्या गोमायुगणसङ्कुलाः ।।6.54.9।।
Meaning
कबन्धानि समुत्पेतुर्भीरूणां भीषणानि वै । भुजपाणिशिरश्छिन्नाश्छिन्नकायाश्च भूतले ।।6.54.10।।
Meaning