Sarga 39: Laṅkā Beheld
लङ्कादर्शनम्
laṅkādarśanam — word-by-word gloss for all 29 shlokas.
Jump to a shloka · 29 in this sarga
तां रात्रिमुषितास्तत्र सुवेले हरिपुङ्गवाः । लङ्कायां ददृशुर्वीरा वनान्युपवनानि च ।।6.39.1।।
Meaning
समसौम्यानि रम्याणि विशालान्यायतानि च । दृष्टिरम्याणि ते दृष्ट्वा बभूवुर्जातविस्मयाः ।।6.39.2।।
Meaning
चम्पकाशोकपुन्नागसालतालसमाकुला । तमालवनसञ्छन्ना नागमालासमावृता ।।6.39.3।।
Meaning
हिन्तालैरर्जुनैर्नीपैः सप्तपर्णैश्च पुष्पितैः । तिलकैः कर्णिकारैश्च पाटलैश्च समन्ततः ।।6.39.4।।
Meaning
शुशुभे पुष्पिताग्रैश्च लतापरिगतैर्द्रुमैः । लङ्का बहुविधैर्दिव्यैर्यथेन्द्रस्यामरावती ।।6.39.5।।
Meaning
विचित्रकुसुमोपेतै रक्तकोमलपल्लवैः । शाद्वलैश्च तथा नीलैश्चित्राभिर्वनराजिभिः ।।6.39.6।।
Meaning
गन्धाढ्यान्यभिरम्याणि पुष्पाणि च फलानि च । धारयन्त्यगमास्तत्र भूषणानीव मानवाः ।।6.39.7।।
Meaning
तच्चैत्ररथसङ्काशं मनोज्ञं नन्दनोपमम् । वनं सर्वर्तुकं रम्यं शुशुभे षट्पदायुतम् ।।6.39.8।।
Meaning
नत्यूहकोयष्टिभकैर्नृत्यमानैश्च बर्हिभिः । रुतं परभृतानां च शुश्रुवुर्वननिर्झरे ।।6.39.9।।
Meaning
नित्यमत्तविहङ्गानि भ्रमराचरितानि च । कोकिलाकुलषण्डानि विहगाभिरुतानि च ।।6.39.10।।
Meaning