Sarga 4: Rāma Marches Out

रामाभिषेणनम्

rāmābhiṣeṇanam — word-by-word gloss for all 126 shlokas.

Page 1 of 13126 shlokas in this sarga (verified max-across-sources)
Shloka 4.1Word-by-word available

श्रुत्वा हनुमतो वाक्यं यथावदनुपूर्वशः । ततोऽब्रवीन्महातेजा रामः सत्यपराक्रमः ।।6.4.1।।

Meaning

Shloka 4.2Word-by-word available

यां निवेदयसे लङ्कां पुरीं भीमस्य रक्षसः । क्षिप्रमेनां मथिष्यामि सत्यमेतद्ब्रवीमि ते ।।6.4.2।।

Meaning

Shloka 4.3Word-by-word available

अस्मिन्मुहूर्ते सुग्रीव प्रयाणमभिरोचये । युक्तो मुहूर्तो विजयः प्राप्तो मध्यं दिवाकरः ।।6.4.3।।

Meaning

Shloka 4.4Word-by-word available

अस्मिन् मुहूर्ते विजये प्राप्ते मध्यं दिवाकरे । सीतां हृत्वा तु मे जातु क्वासौ यास्यति यास्यतः ।।6.4.4।।

Meaning

Shloka 4.5Word-by-word available

सीता श्रुत्वाऽभियानं मे आशामेष्यति जीविते । जीवितान्तेऽमृतं स्पृष्ट्वा पीत्वा विषमिवातुरः ।।6.4.5।।

Meaning

Shloka 4.6Word-by-word available

उत्तराफल्गुनी ह्यद्य श्वस्तु हस्तेन योक्ष्यते । अभिप्रयाम सुग्रीव सर्वानीकसमावृताः ।।6.4.6।।

Meaning

Shloka 4.7Word-by-word available

निमित्तानि च धन्यानि यानि प्रादुर्भवन्ति च । निहत्य रावणं सीतामानयिष्यामि जानकीम् ।।6.4.7।।

Meaning

Shloka 4.8Word-by-word available

उपरिष्टाद्धि नयनं स्फुरमाणमिदं मम । विजयं समनुप्राप्तं शंसतीव मनोरथम् ।।6.4.8।।

Meaning

Shloka 4.9Word-by-word available

ततो वानरराजेन लक्ष्मणेन च पूजितः । उवाच रामो धर्मात्मा पुनरप्यर्थकोविदः ।।6.4.9।।

Meaning

Shloka 4.10Word-by-word available

अग्रे यातु बलस्यास्य नीलो मार्गमवेक्षितुम् । वृतः शतसहस्रेण वानराणां तरस्विनाम् ।।6.4.10।।

Meaning