Sarga 12: Kumbhakarṇa's Opinion
कुम्भकर्णमतिः
kumbhakarṇamatiḥ — word-by-word gloss for all 40 shlokas.
Jump to a shloka · 40 in this sarga
स तां परिषदं कृत्स्नां समीक्ष्य समितिञ्जयः । प्रचोदयामास तदा प्रहस्तं वाहिनीपतिम् ।।6.12.1।।
Meaning
सेनापते यथा ते स्युः कृतविद्याश्चतुर्विधाः । योधा नगररक्षायां तथा व्यादेष्टुमर्हसि ।।6.12.2।।
Meaning
स प्रहस्तः प्रणीतात्मा चिकीर्षन् राजशासनम् । विनिक्षिपद्बलं सर्वं बहिरन्तश्च मन्दिरे ।।6.12.3।।
Meaning
ततो विनिक्षिप्य बलं पृथङ्नगरगुप्तये । प्रहस्तः प्रमुखे राज्ञो निषसाद जगाद च ।।6.12.4।।
Meaning
निहितं बहिरन्तश्च बलं बलवतस्तव । कुरुष्वाविमनाः क्षिप्रं यदभिप्रेतमस्ति ते ।।6.12.5।।
Meaning
प्रहस्तस्य वचः श्रुत्वा राजा राज्यहिते रतः । सुखेप्सुः सुहृदां मध्ये व्याजहार स रावणः ।।6.12.6।।
Meaning
प्रियाप्रिये सुखं दुःखं लाभालाभौ हिताहिते । धर्मकामार्थकृच्छ्रेषु यूयमार्हथ वेदितुम् ।।6.12.7।।
Meaning
सर्वकृत्यानि युष्माभिः समारब्धानि सर्वदा । मन्त्रकर्मनियुक्तानि न जातु विफलानि मे ।।6.12.8।।
Meaning
ससोमग्रहनक्षत्रैर्मरुद्भिरिव वासवः । भवद्भिरहमत्यर्थं वृतः श्रियमवाप्नुयाम् ।।6.12.9।।
Meaning
अहं तु खलु सर्वान्वः समर्थयितुमुद्यतः । कुम्भकर्णस्य तु स्वप्नान्नेममर्थमचोदयम् ।।6.12.10।।
Meaning