Sarga 71: Atikāya Slain
अतिकायवधः
atikāyavadhaḥ — word-by-word gloss for all 115 shlokas.
Jump to a shloka · 115 in this sarga
स्वबलं व्यथितं दृष्ट्वा तुमुलं रोमहर्षणम् । भ्रातॄंश्च निहतान्दृष्ट्वा शक्रतुल्यपराक्रमान् ।।6.71.1।।
Meaning
पितृव्यौ चापि सन्दृश्य समरे सन्निषूदितौ । युद्धोन्मत्तं च मत्तं च भ्रातरौ राक्षसर्षभौ ।।6.71.2।।
Meaning
चुकोप च महातेजा ब्रह्मदत्तवरो युधि । अतिकायोऽद्रिसङ्काशो देवदानवदर्पहा ।।6.71.3।।
Meaning
स भास्करसहस्रस्य सङ्घातमिव भास्वरम् । रथमास्थाय शक्रारिरभिदुद्राव वानरान् ।।6.71.4।।
Meaning
स विस्फार्य महच्चापं किरीटी मृष्टकुण्डलः । नाम विश्रावयामास ननाद च महास्वनम् ।।6.71.5।।
Meaning
तेन सिंहप्रणादेन नामविश्रावणेन च । ज्याशब्देन च भीमेन त्रासयामास वानरान् ।।6.71.6।।
Meaning
ते दृष्ट्वा देहमाहात्म्यं कुम्भकर्णोऽयमुत्थितः । भयार्ता वानराः सर्वे संश्रयन्ते परस्परम् ।।6.71.7।।
Meaning
ते तस्य रूपमालोक्य यथा विष्णोस्त्रिविक्रमे । भयाद्वानरयूथास्ते विद्रवन्ति ततस्ततः ।।6.71.8।।
Meaning
तेऽतिकायं समासाद्य वानरा मूढचेतसः । शरण्यं शरणं जग्मुर्लक्ष्मणाग्रजमाहवे ।।6.71.9।।
Meaning
ततोऽतिकायं काकुत्स्थो रथस्थं पर्वतोपमम् । ददर्श धन्विनं दूराद्गर्जन्तं कालमेघवत् ।।6.71.10।।
Meaning