Sarga 80: Indrajit Fights Unseen

तिरोहितरावणियुद्धम्

tirohitarāvaṇiyuddham — word-by-word gloss for all 43 shlokas.

Page 1 of 543 shlokas in this sarga (verified max-across-sources)
Shloka 80.1Word-by-word available

मकराक्षं हतं श्रुत्वा रावणः समितिञ्जयः । क्रोधेन महताविष्टो दन्तान्कटकटापयन् ।।6.80.1।।

Meaning

Shloka 80.2Word-by-word available

कुपितश्च तदा तत्र किं कार्यमिति चिन्तयन् । आदिदेशाथ सङ्क्रुद्धो रणायेन्द्रजितं सुतम् ।।6.80.2।।

Meaning

Shloka 80.3Word-by-word available

जहि वीर महावीर्यौ भ्रातरौ रामलक्ष्मणौ । अदृश्यो दृश्यमानो वा सर्वथा त्वं बलाधिकः ।।6.80.3।।

Meaning

Shloka 80.4Word-by-word available

त्वमप्रतिमकर्माणमिन्द्रं जयसि संयुगे । किं पुनर्मानुषौ दृष्ट्वा न वधिष्यसि संयुगे ।।6.80.4।।

Meaning

Shloka 80.5Word-by-word available

तथोक्तो राक्षसेन्द्रेण प्रतिगृह्य पितुर्वचः । यज्ञभूमौ स विधिवत्पावकं जुहवेन्द्रजित् ।।6.80.5।।

Meaning

Shloka 80.6Word-by-word available

जुह्वतश्चापि तत्राग्निं रक्तोष्णीषधराः स्त्रियः । आजग्मुस्तत्र सम्भ्रान्ता राक्षस्यो यत्र रावणिः ।।6.80.6।।

Meaning

Shloka 80.7Word-by-word available

शस्त्राणि शरपत्राणि समिधोऽथ विभीतकाः । लोहितानि च वासांसि स्रुवं कार्ष्णायसं तथा ।।6.80.7।।

Meaning

Shloka 80.8Word-by-word available

सर्वतोऽग्निं समास्तीर्य शरपत्रैः सतोमरैः । छागस्य कृष्णवर्णस्य गलं जग्राह जीवतः ।।6.80.8।।

Meaning

Shloka 80.9Word-by-word available

सकृदेव समिद्धस्य विधूमस्य महार्चिषः । बभूवुस्तानि लिङ्गानि विजयं दर्शयन्ति च ।।6.80.9।।

Meaning

Shloka 80.10Word-by-word available

प्रदक्षिणावर्तशिखस्तप्तहाटकसन्निभः । हविस्तत्प्रतिजग्राह पावकः स्वयमुत्थितः ।।6.80.10।।

Meaning