Sarga 96: Rāvaṇa Marches Out

रावणाभिषेणनम्

rāvaṇābhiṣeṇanam — word-by-word gloss for all 49 shlokas.

Page 1 of 549 shlokas in this sarga (verified max-across-sources)
Shloka 96.1Word-by-word available

आर्तानां राक्षसीनां तु लङ्कायां वै कुले कुले । रावणः करुणं शब्दं शुश्राव परिदेवितम् ।।6.96.1।।

Meaning

Shloka 96.2Word-by-word available

स तु दीर्घं विनिश्वस्य मुहूर्तं ध्यानमास्थितः । बभूव परमक्रुद्धो रावणो भीमदर्शनः ।।6.96.2।।

Meaning

Shloka 96.3Word-by-word available

सन्दश्य दशनैरोष्ठं क्रोधसंरक्तलोचनः । राक्षसैरपि दुर्दर्शः कालाग्निरिव मूर्छितः ।।6.96.3।।

Meaning

Shloka 96.4Word-by-word available

उवाच च समीपस्थान्राक्षसान्राक्षसेश्वरः । भयाव्यक्तकथस्तत्र निर्दहन्निव चक्षुषा ।।6.96.4।।

Meaning

Shloka 96.5Word-by-word available

महोदरमहापार्श्वौ विरूपाक्षं च राक्षसम् । शीघ्रं वदत सैन्यानि निर्यातेति ममाज्ञया ।।6.96.5।।

Meaning

Shloka 96.6Word-by-word available

तस्य तद्वचनं श्रुत्वा राक्षसास्ते भयार्दिताः । चोदयामासुरव्यग्रान्राक्षसांस्तान्नृपाज्ञया ।।6.96.6।।

Meaning

Shloka 96.7Word-by-word available

ते तु सर्वे तथेत्युक्त्वा राक्षसा घोरदर्शनाः । कृतस्वस्त्ययनाः सर्वे रणायाभिमुखा ययुः ।।6.96.7।।

Meaning

Shloka 96.8Word-by-word available

प्रतिपूज्य यथान्यायं रावणं ते निशाचराः । तस्थुः प्राञ्जलयः सर्वे भर्तुर्विजयकाङ्क्षिणः ।।6.96.8।।

Meaning

Shloka 96.9Word-by-word available

अथोवाच प्रहस्यैतान्रावणः क्रोधमूर्छितः । महोदरमहापार्श्वौ विरूपाक्षं च राक्षसम् ।।6.96.9।।

Meaning

Shloka 96.10Word-by-word available

अद्य बाणैर्धनुर्मुक्तैर्युगान्तादित्यसन्निभैः । राघवं लक्ष्मणं चैव नेष्यामि यमसादनम् ।।6.96.10।।

Meaning