Sarga 97: Virūpākṣa Slain
विरूपाक्षवधः
virūpākṣavadhaḥ — word-by-word gloss for all 36 shlokas.
Jump to a shloka · 36 in this sarga
तथा तैः कृत्तगात्रैस्तु दशग्रीवेण मार्गणैः । बभूव वसुधा तत्र प्रकीर्णा हरिभिस्तदा ।।6.97.1।।
Meaning
रावणस्याप्रसह्यं तं शरसम्पातमेकतः । न शेकुः सहितुं दीप्तं पतङ्गा ज्वलनं यथा ।।6.97.2।।
Meaning
तेऽर्दिता निशितैर्बाणैः क्रोशन्तो विप्रदुद्रुवुः । पावकार्चिः समाविष्टा दह्यमाना यथा गजाः ।।6.97.3।।
Meaning
प्लवङ्गानामनीकानि महाभ्राणीव मारुतः । स ययौ समरे तस्मिन्विधमन्रावणः शरैः ।।6.97.4।।
Meaning
कदनं तरसा कृत्वा राक्षसेन्द्रो वनौकसाम् । आससाद ततो युद्धे राघवं त्वरितस्तदा ।।6.97.5।।
Meaning
सुग्रीवस्तान्कपीन्दृष्ट्वा भग्नान्विद्रवतो रणे । गुल्मे सुषेणं निक्षिप्य चक्रे युद्धेऽद्भुतं मनः ।।6.97.6।।
Meaning
आत्मनः सदृशं वीरः स तं निक्षिप्य वानरम् । सुग्रीवोऽभिमुखः शत्रुं प्रतस्थे पादपायुधः ।।6.97.7।।
Meaning
पार्श्वतः पृष्ठतश्चास्य सर्वे यूथाधिपाः स्वयम् । अनुजह्रुर्महाशैलान्विविधांश्च महाद्रुमान् ।।6.97.8।।
Meaning
स नर्दन्युधि सुग्रीवः स्वरेण महता महान् । पातयन्विविधांश्चान्याञ्जगामोत्तमराक्षसान् ।।6.97.9।।
Meaning
ममन्थ च महाकायो राक्षसान्वानरेश्वरः । युगान्तसमये वायुः प्रवृद्धानगमानिव ।।6.97.10।।
Meaning