Sarga 118: Rāma Rejects Sītā
सीताप्रत्यादेशः
sītāpratyādeśaḥ — word-by-word gloss for all 25 shlokas.
Jump to a shloka · 25 in this sarga
तां तु पार्श्वस्थितां प्रह्वां रामः सम्प्रेक्ष्य मैथिलीम् । हृदयान्तर्गतक्रोधो व्याहर्तुमुपचक्रमे ।।6.118.1।।
Meaning
एषाऽसि निर्जिता भद्रे शत्रुं जित्वा मया रणे । पौरुषाद्यदनुष्ठेयं तदेतदुपपादितम् ।।6.118.2।।
Meaning
गतोऽस्म्यन्तममर्षस्य धर्षणा सम्प्रमार्जिता । अवमानश्च शत्रुश्च मया युगपदुद्धृतौ ।।6.118.3।।
Meaning
अद्य मे पौरुषं दृष्टमद्य मे सफलः श्रमः । अद्य तीर्णप्रतिज्ञत्वात्प्रभवामीह चात्मनः ।।6.118.4।।
Meaning
या त्वं विरहिता नीता चलचित्तेन रक्षसा । दैवसम्पादितो दोषो मानुषेण मया जितः ।।6.118.5।।
Meaning
सम्प्राप्तमवमानं यस्तेजसा न प्रमार्जति । कस्तस्य पुरुषार्थोऽस्ति पुरुषस्याल्पतेजसः ।।6.118.6।।
Meaning
लङ्घनं च समुद्रस्य लङ्कायाश्चावमर्दनम् । सफलं तस्य तच्छ्लाघ्यं महत्कर्म हनूमतः ।।6.118.7।।
Meaning
युद्धे विक्रमतश्चैव हितं मन्त्रयतश्च मे । सुग्रीवस्य ससैन्यस्य सफलोऽद्य परिश्रमः ।।6.118.8।।
Meaning
निर्गुणं भ्रातरं त्यक्त्वा यो मां स्वयमुपस्थितः । विभीषणस्य भक्तस्य सफलोऽद्य परिश्रमः ।।6.118.9।।
Meaning
इत्येवं ब्रुवतस्तस्य सीता रामस्य तद्वचः । मृगीवोत्फुल्लनयना बभूवाश्रुपरिप्लुता ।।6.118.10।।
Meaning