Sarga 77: Nikumbha Slain
निकुम्भवधः
nikumbhavadhaḥ — word-by-word gloss for all 25 shlokas.
Jump to a shloka · 25 in this sarga
निकुम्भो भ्रातरं दृष्ट्वा सुग्रीवेण निपातितम् । प्रदहन्निव कोपेन वानरेन्द्रमवैक्षत ।।6.77.1।।
Meaning
ततः स्रग्दामसन्नद्धं दत्तपञ्चाङ्गुलं शुभम् । आददे परिघं वीरो नगेन्द्रशिखरोपमम् ।।6.77.2।।
Meaning
हेमपट्टपरिक्षिप्तं वज्रविद्रुमभूषितम् । यमदण्डोपमं भीमं रक्षसां भयनाशनम् ।।6.77.3।।
Meaning
तमाविध्य महातेजाः शक्रध्वजसमं तदा । विननाद विवृत्तास्यो निकुम्भो भीमविक्रमः ।।6.77.4।।
Meaning
उरोगतेन निष्केण भुजस्थैरङ्गदैरपि । कुण्डलाभ्यां च चित्राभ्यां मालया च विचित्रया ।।6.77.5।।
Meaning
निकुम्भो भूषणैर्भाति तेन स्म परिघेण च । यथेन्द्रधनुषा मेघः सविद्युत् स्तनयित्नुमान् ।।6.77.6।।
Meaning
परिघाग्रेण पुस्फोट वातग्रन्थिर्महात्मनः । प्रजज्वाल सघोषश्च विधूम इव पावकः ।।6.77.7।।
Meaning
नगर्या विटपावत्या गन्धर्वभवनोत्तमैः । सह चैवामरावत्या सर्वैश्च भवनैः सह ।।6.77.8।।
Meaning
सतारग्रहनक्षत्रं सचन्द्रं समहाग्रहम् । निकुम्भपरिघाघूर्णं भ्रमतीव नभः स्थलम् ।।6.77.9।।
Meaning
दुरासदश्च सञ्जज्ञे परिघाभरणप्रभः । कपीनां स निकुम्भाग्निर्युगान्ताग्निरिवोत्थितः ।।6.77.10।।
Meaning