Sarga 73: Indrajit's Battle of Illusion
इन्द्रजिन्मायायुद्धम्
indrajinmāyāyuddham — word-by-word gloss for all 75 shlokas.
Jump to a shloka · 75 in this sarga
ततो हतान्राक्षसपुङ्गवांस्तान् देवान्तकादित्रिशिरोतिकायान् । रक्षोगणास्तत्र हतावशिष्टास्ते रावणाय त्वरितं शशंसुः ।।6.73.1।।
Meaning
ततो हतांस्तान्सहसा निशम्य राजा मुमोहाश्रुपरिप्लुताक्षः । पुत्रक्षयं भ्रातृवधं च घोरं विचिन्त्य राजा विपुलं प्रदध्यौ ।।6.73.2।।
Meaning
ततस्तु राजानमुदीक्ष्य दीनं शोकार्णवे सम्परिपुप्लुवानम् । रथर्षभो राक्षसराजसूनुस्तमिन्द्रजिद्वाक्यमिदं बभाषे ।।6.73.3।।
Meaning
न तात मोहं प्रतिगन्तुमर्हसि यत्रेन्द्रजिज्जीवति राक्षसेन्द्र । नेन्द्रारिबाणाभिहतो हि कश्चित् प्राणान्समर्थः समरेऽभिपातुम् ।।6.73.4।।
Meaning
पश्याद्य रामं सह लक्ष्मणेन मद्बाणनिर्भिन्नविकीर्णदेहम् । गतायुषं भूमितले शयानं शितैः शरैराचितसर्वगात्रम् ।।6.73.5।।
Meaning
इमां प्रतिज्ञां शृणु शक्रशत्रोः सुनिश्चितां पौरुषदैवयुक्ताम् । अद्यैव रामं सह लक्ष्मणेन सन्तर्पयिष्यामि शरैरमोघैः ।।6.73.6।।
Meaning
अद्येन्द्रवैवस्वतविष्णुमित्र साध्याश्विवैश्वानरचन्द्रसूर्याः । द्रक्ष्यन्तु मे विक्रममप्रमेयं विष्णोरिवोग्रं बलियज्ञवाटे ।।6.73.7।।
Meaning
स एवमुक्त्वा त्रिदशेन्द्रशत्रुरापृच्छ्य राजानमदीनसत्त्वः । समारुरोहानिलतुल्यवेगं रथं खरश्रेष्ठसमाधियुक्तम् ।।6.73.8।।
Meaning
तमास्थाय महातेजा रथं हरिरथोपमम् । जगाम सहसा तत्र यत्र युद्धमरिन्दमः ।।6.73.9।।
Meaning
तं प्रस्थितं महात्मानमनुजग्मुर्महाबलाः । संहर्षमाणा बहवो धनुष्प्रवरपाणयः ।।6.73.10।।
Meaning