Sarga 116: Good News for Maithilī
मैथिलीप्रियनिवेदनम्
maithilīpriyanivedanam — word-by-word gloss for all 53 shlokas.
Jump to a shloka · 53 in this sarga
इति प्रतिसमादिष्टो हनुमान्मारुतात्मजः । प्रविवेश पुरीं लङ्कां पूज्यमानो निशाचरैः ।।6.116.1।।
Meaning
प्रविश्य च महातेजा रावणस्य निवेशनम् । ततस्तेनाभ्यनुज्ञातो हनूमान्वृक्षवाटिकाम् । संप्रविश्य यथान्यायं सीताया विदितो हरिः ।।6.116.2।।
Meaning
ददर्श मृजया हीनां सातङ्कामिव रोहिणीम् । वृक्षमूले निरानन्दां राक्षसीभिः समावृताम् । निभृतः प्रणतः प्रह्वः सोऽभिगम्याभिवाद्य च ।।6.116.3।।
Meaning
दृष्ट्वा तमागतं देवी हनुमन्तं महाबलम् । तूष्णीमास्त तदा दृष्ट्वा स्मृत्वा प्रमुदिताऽभवत् ।।6.116.4।।
Meaning
सौम्यं दृष्ट्वा मुखं तस्या हनुमान् प्लवगोत्तमः । रामस्य वचनं सर्वमाख्यातुमुपचक्रमे ।।6.116.5।।
Meaning
वैदेहि कुशली रामः सहसुग्रीवलक्ष्मणः । विभीषणसहायश्च हरीणां सहितो बलैः ।।6.116.6।।
Meaning
कुशलं चाह सिद्धार्थो हतशत्रुररिन्दमः । विभीषणसहायेन रामेण हरिभिः सह ।।6.116.7।।
Meaning
निहतो रावणो देवि लक्ष्मणस्य नयेन च । पृष्ट्वा तु कुशलं रामो वीरस्त्वां रघुनन्दनः ।।6.116.8।।
Meaning
अब्रवीत्परमप्रीतः कृतार्थेनान्तरात्मना । प्रियमाख्यामि ते देवि त्वां तु भूयः सभाजये ।।6.116.9।।
Meaning
दिष्ट्या जीवसि धर्मज्ञे जयेन मम संयुगे । तव प्रभावाद्धर्मज्ञे महान्रामेण संयुगे । लब्धो नो विजयः सीते स्वस्था भव गतव्यथा ।।6.116.10।।
Meaning