Sarga 90: The Duel of Lakṣmaṇa and Indrajit
सौमित्रिरावणियुद्धम्
saumitrirāvaṇiyuddham — word-by-word gloss for all 53 shlokas.
Jump to a shloka · 53 in this sarga
युध्यमानौ तु तौ दृष्ट्वा प्रसक्तौ नरराक्षसौ । प्रभिन्नाविव मातङ्गौ परस्परवधैषिणौ ।।6.90.1।।
Meaning
तौ द्रष्टुकामः सङ्ग्रामे परस्परगतौ बली । शूरः स रावणभ्राता तस्थौ सङ्ग्राममूर्धनि ।।6.90.2।।
Meaning
ततो विस्फारयामास महद्धनुरवस्थितः । उत्ससर्ज च तीक्ष्णाग्रान्राक्षसेषु महाशरान् ।।6.90.3।।
Meaning
ते शराः शिखिसङ्काशा निपतन्तः समाहिताः । राक्षसान्दारयामासुर्वज्राणीव महागिरीन् ।।6.90.4।।
Meaning
विभीषणस्यानुचरास्तेऽपि शूलासिपट्टिशैः । चिच्छिदुः समरे वीरान्राक्षसान्राक्षसोत्तमाः ।।6.90.5।।
Meaning
राक्षसैस्तैः परिवृतः स तदा तु विभीषणः । बभौ मध्ये प्रहृष्टानां कलभानामिव द्विपः ।।6.90.6।।
Meaning
ततः सञ्चोदयानो वै हरीन्रक्षोरणप्रियान् । उवाच वचनं काले कालज्ञो रक्षसां वरः ।।6.90.7।।
Meaning
एकोऽयं राक्षसेन्द्रस्य परायणमिव स्थितः । एतच्छेषं बलं तस्य किं तिष्ठत हरीश्वराः ।।6.90.8।।
Meaning
अस्मिन्विनिहते पापे राक्षसे रणमूर्धनि । रावणं वर्जयित्वा तु शेषमस्य हतं बलम् ।।6.90.9।।
Meaning
प्रहस्तो निहतो वीरो निकुम्भश्च महाबलः । कुम्भकर्णश्च कुम्भश्च धूम्राक्षश्च निशाचरः ।।6.90.10।।
Meaning