Sarga 108: Omens Good and Ill
शुभाशुभनिमित्तदर्शनम्
śubhāśubhanimittadarśanam — word-by-word gloss for all 36 shlokas.
Jump to a shloka · 36 in this sarga
स रथं सारथिर्हृष्टः परसैन्यप्रधर्षणम् । गन्धर्वनगराकारं समुच्छ्रितपताकिनम् ।।6.108.1।।
Meaning
युक्तं परमसम्पन्नैर्वाजिभिर्हेममालिभिः । युद्धोपकरणैः पूर्णं पताकाध्वजमालिनम् ।।6.108.2।।
Meaning
ग्रसन्तमिव चाकाशं नादयन्तं वसुन्धराम् । प्रणाशं परसैन्यानां स्वसैन्यानां प्रहर्षणम् ।।6.108.3।।
Meaning
रावणस्य रथं क्षिप्रं चोदयामास सारथिः । तमापतन्तं सहसा स्वनवन्तं महास्वनम् ।।6.108.4।।
Meaning
रथं राक्षसराजस्य नरराजो ददर्श ह । कृष्णवाजिसमायुक्तं युक्तं रौद्रेण वर्चसा । दीप्यमानमिवाकाशे विमानं सूर्यवर्चसम् ।।6.108.5।।
Meaning
तडित्पताकागहनं दर्शितेन्द्रायुधायुधम् । शरधारा विमुञ्चन्तं धारासारमिवाम्बुदम् ।।6.108.6।।
Meaning
तं दृष्ट्वा मेघसङ्काशमापतन्तं रथं रिपोः । गिरेर्वज्राभिमृष्टस्य दीर्यतः सदृशस्वनम् ।।6.108.7।।
Meaning
विस्फारयन्वै वेगेन बालचन्द्रनतं धनुः । उवाच मातलिं रामः सहस्राक्षस्य सारथिम् ।।6.108.8।।
Meaning
मातले पश्य संरब्धमापतन्तं रथं रिपोः । यथापसव्यं पतता वेगेन महता पुनः ।।6.108.9।।
Meaning
समरे हन्तुमात्मानं तथा तेन कृता मतिः । तदप्रमादमातिष्ठन्प्रत्युद्गच्छ रथं रिपोः ।।6.108.10।।
Meaning