Sarga 79: Makarākṣa Slain
मकराक्षवधः
makarākṣavadhaḥ — word-by-word gloss for all 41 shlokas.
Jump to a shloka · 41 in this sarga
निर्गतं मकराक्षं ते दृष्ट्वा वानरयूथपाः । आप्लुत्य सहसा सर्वे योद्धुकामा व्यवस्थिताः ।।6.79.1।।
Meaning
ततः प्रवृत्तं सुमहत्तद्युद्धं रोमहर्षणम् । निशाचरैः प्लवङ्गानां देवानां दानवैरिव ।।6.79.2।।
Meaning
वृक्षशूलनिपातैश्च शिलापरिघपातनैः । अन्योन्यं मर्दयन्ति स्म तदा कपिनिशाचराः ।।6.79.3।।
Meaning
शक्तिखड्गगदाकुन्तैस्तोमरैश्च निशाचराः । पट्टिशैर्भिन्दिपालैश्च निर्घातैश्च समन्ततः ।।6.79.4।।
Meaning
पाशमुद्गरदण्डैश्च निखातैश्चापरे तदा । कदनं कपिवीराणां चक्रुस्ते रजनीचराः ।।6.79.5।।
Meaning
बाणौघैरर्दिताश्चापि खरपुत्रेण वानराः । सम्भ्रान्तमनसः सर्वे दुद्रुवुर्भयपीडिताः ।।6.79.6।।
Meaning
तान् दृष्ट्वा राक्षसाः सर्वे द्रवमाणान्वलीमुखान् । नेदुस् ते सिंहवद्धृष्टा राक्षसा जितकाशिनः ।।6.79.7।।
Meaning
विद्रवत्सु तदा तेषु वानरेषु समन्ततः । रामस्तान्वारयामास शरवर्षेण राक्षसान् ।।6.79.8।।
Meaning
वारितान्राक्षसान्दृष्ट्वा मकराक्षो निशाचरः । क्रोधानलसमाविष्टो वचनं चेदमब्रवीत् ।।6.79.9।।
Meaning
तिष्ठ राम मया सार्धं द्वन्द्वयुद्धं ददामि ते । त्याजयिष्यामि ते प्राणान्धनुर्मुक्तैः शितैः शरैः ।।6.79.10।।
Meaning