Sarga 126: Rāma Describes the Way Home
प्रत्यावृत्तिपथवर्णनम्
pratyāvṛttipathavarṇanam — word-by-word gloss for all 56 shlokas.
Jump to a shloka · 56 in this sarga
अनुज्ञातं तु रामेण तद्विमानमनुत्तमम् । उत्पपात महामेघः श्वसनेनोद्धतो यथा ।।6.126.1।।
Meaning
पातयित्वा ततश्चक्षुः सर्वतो रघुनन्दनः । अब्रवीन्मैथिलीं सीतां रामः शशिनिभाननाम् ।।6.126.2।।
Meaning
कैलासशिखराकारे त्रिकूटशिखरे स्थिताम् । लङ्कामीक्षस्व वैदेहि निर्मितां विश्वकर्मणा ।।6.126.3।।
Meaning
एतदायोधनं पश्य मांसशोणितकर्दमम् । हरीणां राक्षसानां च सीते विशसनं महत् ।।6.126.4।।
Meaning
अत्र दत्तवरः शेते प्रमाथी राक्षसेश्वरः । तव हेतोर्विशालाक्षि रावणो निहतो मया ।।6.126.5।।
Meaning
कुम्भकर्णोऽत्र निहतः प्रहस्तश्च निशाचरः । धूम्राक्षश्चात्र निहतो वानरेण हनूमता ।।6.126.6।।
Meaning
विद्युन्माली हतश्चात्र सुषेणेन महात्मना । लक्ष्मणेनेन्द्रजिच्चात्र रावणिर्निहतो रणे ।।6.126.7।।
Meaning
अङ्गदेनात्र निहतो विकटो नाम राक्षसः । विरूपाक्षश्च दुर्धर्षो महापार्श्वमहोदरौ ।।6.126.8।।
Meaning
अकम्पनश्च निहतो बलिनोऽन्ये च राक्षसाः । त्रिशिराश्चातिकायश्च देवान्तकनरान्तकौ । युद्धोन्मत्तश्च मत्तश्च राक्षसप्रवरावुभौ ।।6.126.9।।
Meaning
निकुम्भश्चैव कुम्भश्च कुम्भकर्णात्मजौ बली । वज्रदंष्ट्रश्च दंष्ट्रश्च बहवो राक्षसा हताः ।।6.126.10।।
Meaning