Sarga 125: The Puṣpaka Takes Flight
पुष्पकोत्पतनम्
puṣpakotpatanam — word-by-word gloss for all 27 shlokas.
Jump to a shloka · 27 in this sarga
उपस्थितं तु तं दृष्ट्वा पुष्पकं पुष्पभूषितम् । अविदूरस्थितो रामं प्रत्युवाच विभीषणः ।।6.125.1।।
Meaning
स तु बद्धाञ्जलिः प्रह्वो विनीतो राक्षसेश्वरः । अब्रवीत्त्वरयोपेतः किं करोमीति राघवम् ।।6.125.2।।
Meaning
तमब्रवीन्महातेजा लक्ष्मणस्योपशृण्वतः । विमृश्य राघवो वाक्यमिदं स्नेहपुरस्कृतम् ।।6.125.3।।
Meaning
कृतप्रयत्नकर्माणो विभीषण वनौकसः । रत्नैरर्थैश्च विविधैर्भूषणैश्चापि पूजय ।।6.125.4।।
Meaning
सहैभिरजिता लङ्का निर्जिता राक्षसेश्वर । हृष्टैः प्राणभयं त्यक्त्वा सङ्ग्रामेष्वनिवर्तिभिः ।।6.125.5।।
Meaning
त इमे कृतकर्माणः पूज्यन्तां सर्ववानराः । धनरत्नप्रदानेन कर्मैषां सफलं कुरु ।।6.125.6।।
Meaning
एवं सम्मानिताश्चैते मानार्हा मानद त्वया । भविष्यन्ति कृतज्ञेन निर्वृता हरियूथपाः ।।6.125.7।।
Meaning
त्यागिनं सङ्ग्रहीतारं सानुक्रोशं यशस्विनम् । सर्वे त्वामवगच्छन्ति ततः सम्बोधयाम्यहम् ।।6.125.8।।
Meaning
हीनं रतिगुणैः सर्वैरभिहन्तारमाहवे । त्यजन्ति नृपतिं सैन्याः संविग्नास्तं नरेश्वरम् ।।6.125.9।।
Meaning
एवमुक्तस्तु रामेण वानरांस्तान्विभीषणः । रत्नार्थैः संविभागेन सर्वानेवाभ्यपूजयत् ।।6.125.10।।
Meaning