Sarga 128: Hanumān Brings Bharata the Good News

भरतप्रियाख्यानम्

bharatapriyākhyānam — word-by-word gloss for all 45 shlokas.

Page 1 of 545 shlokas in this sarga (verified max-across-sources)
Shloka 128.1Word-by-word available

अयोध्यां तु समालोक्य चिन्तयामास राघवः । प्रियकामः प्रियं रामस्ततस्त्वरितविक्रमः । चिन्तयित्वा हनूमन्तमुवाच प्लवगोत्तमम् ।।6.128.1।।

Meaning

Shloka 128.2Word-by-word available

अयोध्यां त्वरितो गच्छ क्षिप्रं त्वं प्लवगोत्तम । जानीहि कच्चित्कुशली जनो नृपतिमन्दिरे । शृङ्गिबेरपुरं प्राप्य गुहं गहनगोचरम् ।।6.128.2।।

Meaning

Shloka 128.3Word-by-word available

निषादाधिपतिं ब्रूहि कुशलं वचनान्मम । श्रुत्वा तु मां कुशलिनमरोगं विगतज्वरम् ।।6.128.3।।

Meaning

Shloka 128.4Word-by-word available

भविष्यति गुहः प्रीतः स ममात्मसमः सखा । अयोध्यायाश्च ते मार्गं प्रवृत्तिं भरतस्य च ।।6.128.4।।

Meaning

Shloka 128.5Word-by-word available

निवेदयिष्यति प्रीतो निषादाधिपतिर्गुहः । भरतस्तु त्वया वाच्यः कुशलं वचनान्मम ।।6.128.5।।

Meaning

Shloka 128.6Word-by-word available

सिद्धार्थं शंस मां तस्मै सभार्यं सहलक्ष्मणम् । हरणं चापि वैदेह्या रावणेन बलीयसा ।।6.128.6।।

Meaning

Shloka 128.7Word-by-word available

सुग्रीवेण च संसर्गं वालिनश्च वधं रणे । मैथिल्यन्वेषणं चैव यथा चाधिगता त्वया ।।6.128.7।।

Meaning

Shloka 128.8Word-by-word available

लङ्घयित्वा महातोयमापगापतिमव्ययम् । उपायानं समुद्रस्य सागरस्य च दर्शनम् ।।6.128.8।।

Meaning

Shloka 128.9Word-by-word available

यथा च कारितः सेतू रावणश्च यथा हतः । वरदानं महेन्द्रेण ब्रह्मणा वरुणेन च ।।6.128.9।।

Meaning

Shloka 128.10Word-by-word available

महादेवप्रसादाच्च पित्रा मम समागमम् । उपयान्तं च मां सौम्यं भरतस्य निवेदय ।।6.128.10।।

Meaning