Sarga 109: Rāvaṇa's Banner Cut Down
रावणध्वजोन्मथनम्
rāvaṇadhvajonmathanam — word-by-word gloss for all 29 shlokas.
Jump to a shloka · 29 in this sarga
ततः प्रवृत्तं सुक्रूरं रामरावणयोस्तदा । सुमहद्द्वैरथं युद्धं सर्वलोकभयावहम् ।।6.109.1।।
Meaning
ततो राक्षससैन्यं च हरीणां च महद्बलम् । प्रगृहीतप्रहरणं निश्चेष्टं समतिष्ठत ।।6.109.2।।
Meaning
सम्प्रयुद्धौ ततो दृष्ट्वा बलवन्नरराक्षसौ । व्याक्षिप्तहृदयाः सर्वे परं विस्मयमागताः ।।6.109.3।।
Meaning
नानाप्रहरणैर्व्यग्रैर्भुजैर्विस्मितबुद्धयः । सर्पन्तं प्रेक्ष्य सङ्ग्रामं नाभिजग्मुः परस्परम् ।।6.109.4।।
Meaning
रक्षसां रावणं चापि वानराणां च राघवम् । पश्यतां विस्मिताक्षाणां सैन्यं चित्रमिवाबभौ ।।6.109.5।।
Meaning
तौ तु तत्र निमित्तानि दृष्ट्वा रावणराघवौ । कृतबुद्धी स्थिरामर्षौ युयुधाते ह्यभीतवत् ।।6.109.6।।
Meaning
जेतव्यमिति काकुत्स्थो मर्तव्यमिति रावणः । धृतौ स्ववीर्यसर्वस्वं युद्धेऽदर्शयतां तदा ।।6.109.7।।
Meaning
ततः क्रोधाद्दशग्रीवः शरान्सन्धाय वीर्यवान् । मुमोच ध्वजमुद्दिश्य राघवस्य रथे स्थितम् ।।6.109.8।।
Meaning
ते शरास्तमनासाद्य पुरन्दररथध्वजम् । रथशक्तिं परामृश्य निपेतुर्धरणीतले ।।6.109.9।।
Meaning
ततो रामोऽभिसङ्क्रुद्धश्चापमायम्य वीर्यवान् । कृतप्रतिकृतं कर्तुं मनसा सम्प्रचक्रमे ।।6.109.10।।
Meaning