Sarga 92: The Wounded Healed
रावणिशस्त्रहतचिकित्सा
rāvaṇiśastrahatacikitsā — word-by-word gloss for all 28 shlokas.
Jump to a shloka · 28 in this sarga
रुधिरक्लिन्नगात्रस्तु लक्ष्मणः शुभलक्षणः । बभूव हृष्टस्तं हत्वा शक्रजेतारमाहवे ।।6.92.1।।
Meaning
ततः स जाम्बवन्तं च हनुमन्तं च वीर्यवान् । सन्निहत्य महातेजास्तांश्च सर्वान्वनौकसः ।।6.92.2।।
Meaning
आजगाम ततस्तीव्रं यत्र सुग्रीवराघवौ । विभीषणमवष्टभ्य हनूमन्तं च लक्ष्मणः ।।6.92.3।।
Meaning
ततो राममभिक्रम्य सौमित्रिरभिवाद्य च । तस्थौ भ्रातृसमीपस्थ इन्द्रस्येव बृहस्पतिः ।।6.92.4।।
Meaning
निष्टनन्निव चागम्य राघवाय महात्मने । आचचक्षे तदा वीरो घोरमिन्द्रजितो वधम् ।।6.92.5।।
Meaning
रावणेस्तु शिरश्छिन्नं लक्ष्मणेन महात्मना । न्यवेदयत रामाय तदा हृष्टो विभीषणः ।।6.92.6।।
Meaning
श्रुत्वैतत्तु महावीर्यो लक्ष्मणेनेन्द्रजिद्वधम् । प्रहर्षमतुलं लेभे रामो वाक्यमुवाच ह ।।6.92.7।।
Meaning
साधु लक्ष्मण तुष्टोऽस्मि कर्मणा सुकृतं कृतम् । रावणेर्हि विनाशेन जितमित्युपधारय ।।6.92.8।।
Meaning
स तं शिरस्युपाघ्राय लक्ष्मणं लक्ष्मीवर्धनम् । लज्जमानं बलात्स्नेहादङ्कमारोप्य वीर्यवान् ।।6.92.9।।
Meaning
उपवेश्य तमुत्सङ्गे परिष्वज्यावपीडितम् । भ्रातरं लक्ष्मणं स्निग्धं पुनःपुनरुदैक्षत ।।6.92.10।।
Meaning