Sarga 101: Lakṣmaṇa Struck by the Spear
लक्ष्मणशक्तिक्षेपः
lakṣmaṇaśaktikṣepaḥ — word-by-word gloss for all 63 shlokas.
Jump to a shloka · 63 in this sarga
तस्मिन्प्रतिहतेऽस्त्रे तु रावणो राक्षसाधिपः । क्रोधं च द्विगुणं चक्रे क्रोधाच्चास्त्रमनन्तरम् ।।6.101.1।।
Meaning
मयेन विहितं रौद्रमन्यदस्त्रं महाद्युतिः । उत्स्रष्टुं रावणो घोरं राघवाय प्रचक्रमे ।।6.101.2।।
Meaning
ततः शूलानि निश्चेरुर्गदाश्च मुसलानि च । कार्मुकाद्दीप्यमानानि वज्रसाराणि सर्वशः ।।6.101.3।।
Meaning
मुद्गराः कूटपाशाश्च दीप्ताश्चाशनयस्तथा । निष्पेतुर्विविधास्तीक्ष्णा वाता इव युगक्षये ।।6.101.4।।
Meaning
तदस्त्रं राघवः श्रीमानुत्तमास्त्रविदां वरः । जघान परमास्त्रेण गान्धर्वेण महाद्युतिः ।।6.101.5।।
Meaning
तस्मिन्प्रतिहतेऽस्त्रे तु राघवेण महात्मना । रावणः क्रोधताम्राक्षः सौरमस्त्रमुदैरयत् ।।6.101.6।।
Meaning
ततश्चक्राणि निष्पेतुर्भास्वराणि महान्ति च । कार्मुकाद्भीमवेगस्य दशग्रीवस्य धीमतः ।।6.101.7।।
Meaning
तैरासीद्गगनं दीप्तं सम्पतद्भिरितस्ततः । पतद्भिश्च दिशो दीप्ताश्चन्द्रसूर्यग्रहैरिव ।।6.101.8।।
Meaning
तानि चिच्छेद बाणौघैश्चक्राणि स तु राघवः । आयुधानि च चित्राणि रावणस्य चमूमुखे ।।6.101.9।।
Meaning
तदस्त्रं तु हतं दृष्ट्वा रावणो राक्षसाधिपः । विव्याध दशभिर्बाणै रामं सर्वेषु मर्मसु ।।6.101.10।।
Meaning