Sarga 91: Indrajit Slain

रावणिवधः

rāvaṇivadhaḥ — word-by-word gloss for all 98 shlokas.

Page 1 of 1098 shlokas in this sarga (verified max-across-sources)
Shloka 91.1Word-by-word available

स हताश्वो महातेजा भूमौ तिष्ठन्निशाचरः । इन्द्रजित्परमक्रुद्धः सम्प्रजज्वाल तेजसा ।।6.91.1।।

Meaning

Shloka 91.2Word-by-word available

तौ धन्विनौ जिघांसन्तावन्योन्यमिषुभिर्भृशम् । विजयेनाभिनिष्क्रान्तौ वने गजवृषाविव ।।6.91.2।।

Meaning

Shloka 91.3Word-by-word available

निबर्हयन्तश्चान्योन्यं ते राक्षसवनौकसः । भर्तारं न जहुर्युद्धे सम्पतन्तस्ततस्ततः ।।6.91.3।।

Meaning

Shloka 91.4Word-by-word available

ततस्तान्राक्षसान्सर्वान्हर्षयन्रावणात्मजः । स्तुवानो हर्षमाणश्च इदं वचनमब्रवीत् ।।6.91.4।।

Meaning

Shloka 91.5Word-by-word available

तमसा बहुलेनेमाः संसक्ताः सर्वतो दिशः । नेह विज्ञायते स्वो वा परो वा राक्षसोत्तमाः ।।6.91.5।।

Meaning

Shloka 91.6Word-by-word available

धृष्टं भवन्तो युध्यन्तु हरीणां मोहनाय वै । अहं तु रथमास्थाय आगमिष्यामि संयुगम् ।।6.91.6।।

Meaning

Shloka 91.7Word-by-word available

तथा भवन्तः कुर्वन्तु यथेमे काननौकसः । न युद्ध्येयुर्दुरात्मानः प्रविष्टे नगरं मयि ।।6.91.7।।

Meaning

Shloka 91.8Word-by-word available

इत्युक्त्वा रावणसुतो वञ्चयित्वा वनौकसः । प्रविवेश पुरीं लङ्कां रथहेतोरमित्रहा ।।6.91.8।।

Meaning

Shloka 91.9Word-by-word available

स रथं भूषयित्वा तु रुचिरं हेमभूषितम् । प्रासासिशतसम्पूर्णं युक्तं परमवाजिभिः ।।6.91.9।।

Meaning

Shloka 91.10Word-by-word available

अधिष्ठितं हयज्ञेन सूतेनाप्तोपदेशिना । आरुरोह महातेजा रावणिः समितिञ्जयः ।।6.91.10।।

Meaning