Sarga 68: Rāvaṇa's Grief
रावणानुशोकः
rāvaṇānuśokaḥ — word-by-word gloss for all 24 shlokas.
Jump to a shloka · 24 in this sarga
कुम्भकर्णं हतं दृष्ट्वा राघवेण महात्मना । राक्षसा राक्षसेन्द्राय रावणाय न्यवेदयन् ।।6.68.1।।
Meaning
राजन्स कालसङ्काशः संयुक्तः कालकर्मणा । विद्राव्य वानरीं सेनां भक्षयित्वा च वानरान् ।।6.68.2।।
Meaning
प्रतपित्वा मुहूर्तं च प्रशान्तो रामतेजसा । कायेनार्धप्रविष्टेन समुद्रं भीमदर्शनम् ।।6.68.3।।
Meaning
निकृत्तकण्ठोरुभुजो विक्षरन्रुधिरं बहु । रुद्ध्वा द्वारं शरीरेण लङ्कायाः पर्वतोपमः ।।6.68.4।।
Meaning
कुम्भकर्णस्तव भ्राता काकुत्स्थशरपीडितः । लगण्डभूतो विकृतो दावदग्ध इव द्रुमः ।।6.68.5।।
Meaning
तं श्रुत्वा निहतं सङ्ख्ये कुम्भकर्णं महाबलम् । रावणः शोकसन्तप्तो मुमोह च पपात च ।।6.68.6।।
Meaning
पितृव्यं निहतं दृष्ट्वा देवान्तकनरान्तकौ । त्रिशिराश्चातिकायश्च रुरुदुः शोकपीडिताः ।।6.68.7।।
Meaning
भ्रातरं निहतं दृष्ट्वा रामेणाक्लिष्टकर्मणा । महोदरमहापार्श्वौ शोकाक्रान्तौ बभूवतुः ।।6.68.8।।
Meaning
ततः कृच्छ्रात्समासाद्य सञ्ज्ञां राक्षसपुङ्गवः । कुम्भकर्णवधाद्दीनो विललाप स रावणः ।।6.68.9।।
Meaning
हा वीर रिपुदर्पघ्न कुम्भकर्ण महाबल । त्वं मां विहाय वै दैवाद्यातोऽसि यमसादनम् ।।6.68.10।।
Meaning