Sarga 25: Śuka and Sāraṇa Sent as Spies

शुकसारणप्रेषणादिकम्

śukasāraṇapreṣaṇādikam — word-by-word gloss for all 34 shlokas.

Page 1 of 434 shlokas in this sarga (verified max-across-sources)
Shloka 25.1Word-by-word available

सबले सागरं तीर्णे रामे दशरथात्मजे । अमात्यौ रावणः श्रीमानब्रवीच्छुकसारणौ ।।6.25.1।।

Meaning

Shloka 25.2Word-by-word available

समग्रं सागरं तीर्णं दुस्तरं वानरं बलम् । अभूतपूर्वं रामेण सागरे सेतुबन्धनम् ।।6.25.2।।

Meaning

Shloka 25.3Word-by-word available

सागरे सेतुबन्धं तु न श्रद्दध्यां कथञ्चन । अवश्यं चापि सङ्ख्येयं तन्मया वानरं बलम् ।।6.25.3।।

Meaning

Shloka 25.4Word-by-word available

भवन्तौ वानरं सैन्यं प्रविश्यानुपलक्षितौ । परिमाणं च वीर्यं च ये च मुख्याः प्लवङ्गमाः ।।6.25.4।।

Meaning

Shloka 25.5Word-by-word available

मन्त्रिणो ये च रामस्य सुग्रीवस्य च सम्मतः । ये पूर्वमभिवर्तन्ते ये च शूराः प्लवङ्गमाः ।।6.25.5।।

Meaning

Shloka 25.6Word-by-word available

स च सेतुर्यथा बद्धः सागरे सलिलार्णवे । निवेशं च यथा तेषां वानराणां महात्मनाम् ।।6.25.6।।

Meaning

Shloka 25.7Word-by-word available

रामस्य व्यवसायं च वीर्यं प्रहरणानि च । लक्ष्मणस्य च वीरस्य तत्त्वतो ज्ञातुमर्हथः ।।6.25.7।।

Meaning

Shloka 25.8Word-by-word available

कश्च सेनापतिस्तेषां वानराणां महौजसाम् । एतज्ज्ञात्वा यथातत्त्वं शीघ्रमागन्तुमर्हथः ।।6.25.8।।

Meaning

Shloka 25.9Word-by-word available

इति प्रतिसमादिष्टौ राक्षसौ शुकसारणौ । हरिरूपधरौ वीरौ प्रविष्टौ वानरं बलम् ।।6.25.9।।

Meaning

Shloka 25.10Word-by-word available

ततस्तद्वानरं सैन्यमचिन्त्यं रोमहर्षणम् । सङ्ख्यातुं नाध्यगच्छेतां तदा तौ शुकसारणौ ।।6.25.10।।

Meaning