Sarga 3: Laṅkā's Fortifications Described
लङ्कादुर्गादिकथनम्
laṅkādurgādikathanam — word-by-word gloss for all 34 shlokas.
Jump to a shloka · 34 in this sarga
सुग्रीवस्य वचः श्रुत्वा हेतुमत्परमार्थवित् । प्रतिजग्राह काकुत्स्थो हनूमन्तमथाब्रवीत् ।।6.3.1।।
Meaning
तपसा सेतुबन्धेन सागरोच्छोषणेन वा । सर्वथा सुसमर्थोऽस्मि सागरस्यास्य लङ्घने ।।6.3.2।।
Meaning
कति दुर्गाणि दुर्गाया लङ्काया ब्रूहि तानि मे । ज्ञातुमिच्छामि तत्सर्वं दर्शनादिव वानर ।।6.3.3।।
Meaning
बलस्य परिमाणं च द्वारदुर्गक्रियामपि । गुप्तिकर्म च लङ्काया रक्षसां सदनानि च ।।6.3.4।।
Meaning
यथासुखं यथावच्च लङ्कायामसि दृष्टवान् । सर्वमाचक्ष्व तत्त्वेन सर्वथा कुशलो ह्यसि ।।6.3.5।।
Meaning
श्रुत्वा रामस्य वचनं हनूमान्मारुतात्मजः । वाक्यं वाक्यविदां श्रेष्ठो रामं पुनरथाब्रवीत् ।।6.3.6।।
Meaning
श्रूयतां सर्वमाख्यास्ये दुर्गकर्मविधानतः । गुप्ता पुरी यथा लङ्का रक्षिता च यथा बलैः ।।6.3.7।।
Meaning
राक्षसाश्च यथा स्निग्धा रावणस्य च तेजसा । परां समृद्धिं लङ्कायाः सागरस्य च भीमताम् ।।6.3.8।।
Meaning
विभागं च बलौघस्य निर्देशं वाहनस्य च । एवमुक्त्वा हरिश्रेष्ठः कथयामास तत्त्वतः ।।6.3.9।।
Meaning
हृष्टा प्रमुदिता लङ्का मत्तद्विपसमाकुला । महती रथसम्पूर्णा रक्षोगणसमाकुला ।।6.3.10।।
Meaning