Sarga 34: Rāvaṇa's Resolve Reported
रावणनिश्चयकथनम्
rāvaṇaniścayakathanam — word-by-word gloss for all 28 shlokas.
Jump to a shloka · 28 in this sarga
अथ तां जातसन्तापां तेन वाक्येन मोहिताम् । सरमा ह्लादयामास पृथिवीं द्यौरिवाम्भसा ।।6.34.1।।
Meaning
ततस्तस्या हितं सख्याश्चिकीर्षन्ती सखीवचः । उवाच काले कालज्ञा स्मितपूर्वाभिभाषिणी ।।6.34.2।।
Meaning
उत्सहेयमहं गत्वा त्वद्वाक्यमसितेक्षणे । निवेद्य कुशलं रामे प्रतिच्छन्ना निवर्तितुम् ।।6.34.3।।
Meaning
न हि मे क्रममाणाया निरालम्बे विहायसि । समर्थो गतिमन्वेतुं पवनो गरुडोऽपि वा ।।6.34.4।।
Meaning
एवं ब्रुवाणां तां सीता सरमां पुनरब्रवीत् । मधुरं श्लक्ष्णया वाचा पूर्वं शोकाभिपन्नया ।।6.34.5।।
Meaning
समर्था गगनं गन्तुमपि वा त्वं रसातलम् । अवगच्छाम्यकर्तव्यं कर्तव्यं ते मदन्तरे ।।6.34.6।।
Meaning
मत्प्रियं यदि कर्तव्यं यदि बुद्धिः स्थिरा तव । ज्ञातुमिच्छामि तं गत्वा किं करोतीति रावणः ।।6.34.7।।
Meaning
स हि मायाबलः क्रूरो रावणः शत्रुरावणः । मां मोहयति दुष्टात्मा पीतमात्रेव वारुणी ।।6.34.8।।
Meaning
तर्जापयति मां नित्यं भर्त्सापयति चासकृत् । राक्षसीभिः सुघोराभिर्या मां रक्षन्ति नित्यशः ।।6.34.9।।
Meaning
उद्विग्ना शङ्किता चास्मि न स्वस्थं च मनो मम । तद्भयाच्चाहमुद्विग्ना अशोकवनिकां गता ।।6.34.10।।
Meaning