Sarga 21: The Ocean Stirred
समुद्रसङ्क्षोभः
samudrasaṅkṣobhaḥ — word-by-word gloss for all 35 shlokas.
Jump to a shloka · 35 in this sarga
ततः सागरवेलायां दर्भानास्तीर्य राघवः । अञ्जलिं प्राङ्मुखः कृत्वा प्रतिशिश्ये महोदधेः ।।6.21.1।।
Meaning
बाहुं भुजगभोगाभमुपधायारिसूदनः । जातरूपमयैश्चैव भूषणैर्भूषितं पुरा ।।6.21.2।।
Meaning
वरकाञ्चनकेयूरमुक्ताप्रवरभूषणैः । भुजैः परमनारीणामभिमृष्टमनेकधा ।।6.21.3।।
Meaning
चन्दनागरुभिश्चैव पुरस्तादधिवासितम् । बालसूर्यप्रतीकाशैश्चन्दनैरुपशोभितम् ।।6.21.4।।
Meaning
शयने चोत्तमाङ्गेन सीतायाः शोभितं पुरा । तक्षकस्येव सम्भोगं गङ्गाजलनिषेवितम् ।।6.21.5।।
Meaning
संयुगे युगसङ्काशं शत्रूणां शोकवर्धनम् । सुहृदानन्दनं दीर्घं सागरान्तव्यपाश्रयम् ।।6.21.6।।
Meaning
अस्यता च पुनः सव्यं ज्याघातविगतत्वचम् । दक्षिणो दक्षिणं बाहुं महापरिघसन्निभम् ।।6.21.7।।
Meaning
गोसहस्रप्रदातारमुपधाय महद्भुजम् । अद्य मे मरणं वाऽथ तरणं सागरस्य वा ।।6.21.8।।
Meaning
इति रामो मतिं कृत्वा महाबाहुर्महोदधिम् । अधिशिश्ये च विधिवत्प्रयतो नियतो मुनिः ।।6.21.9।।
Meaning
तस्य रामस्य सुप्तस्य कुशास्तीर्णे महीतले । नियमादप्रमत्तस्य निशास्तिस्रोऽतिचक्रमुः ।।6.21.10।।
Meaning