Sarga 9: Vibhīṣaṇa's Counsel

विभीषणसमालोचनम्

vibhīṣaṇasamālocanam — word-by-word gloss for all 24 shlokas.

Jump to a shloka · 24 in this sarga

Page 1 of 324 shlokas in this sarga (verified max-across-sources)
Shloka 9.1Word-by-word available

ततो निकुम्भो रभसः सूर्यशत्रुर्महाबलः । सुप्तघ्नो यज्ञहा रक्षो महापार्श्वो महोदरः ।।6.9.1।।

Meaning

Shloka 9.2Word-by-word available

अग्निकेतुश्च दुर्धर्षो रश्मिकेतुश्च राक्षसः । इन्द्रजिच्च महातेजा बलवान् रावणात्मजः ।।6.9.2।।

Meaning

Shloka 9.3Word-by-word available

प्रहस्तोऽथ विरूपाक्षो वज्रदंष्ट्रो महाबलः । धूम्राक्षश्चातिकायश्च दुर्मुखश्चैव राक्षसः ।।6.9.3।।

Meaning

Shloka 9.4Word-by-word available

परिघान्पट्टशान्प्रासान् शक्तिशूलपरश्वधान् । चापानि च सबाणानि खड्गांश्च विपुलान् शितान् ।।6.9.4।।

Meaning

Shloka 9.5Word-by-word available

प्रगृह्य परमक्रुद्धाः समुत्पत्य च राक्षसाः । अब्रुवन् रावणं सर्वे प्रदीप्ता इव तेजसा ।।6.9.5।।

Meaning

Shloka 9.6Word-by-word available

अद्य रामं वधिष्यामः सुग्रीवं च सलक्ष्मणम् । कृपणं च हनूमन्तं लङ्का येन प्रधर्षिता ।।6.9.6।।

Meaning

Shloka 9.7Word-by-word available

तान्गृहीतायुधान्सर्वान्वारयित्वा विभीषणः । अब्रवीत्प्राञ्जलिर्वाक्यं पुनः प्रत्युपवेश्य तान् ।।6.9.7।।

Meaning

Shloka 9.8Word-by-word available

अप्युपायैस्त्रिभिस्तात योऽर्थः प्राप्तुं न शक्यते । तस्य विक्रमकालांस्तान् युक्तानाहुर्मनीषिणः ।।6.9.8।।

Meaning

Shloka 9.9Word-by-word available

प्रमत्तेष्वभियुक्तेषु दैवेन प्रहृतेषु च । विक्रमास्तात सिध्यन्ति परीक्ष्य विधिना कृताः ।।6.9.9।।

Meaning

Shloka 9.10Word-by-word available

अप्रमत्तं कथं तं तु विजिगीषुं बले स्थितम् । जितरोषं दुराधर्षं प्रधर्षयितुमिच्छथ ।।6.9.10।।

Meaning