Sarga 106: The Charioteer's Wisdom
सारथिविज्ञेयम्
sārathivijñeyam — word-by-word gloss for all 27 shlokas.
Jump to a shloka · 27 in this sarga
स तु मोहात्सुसङ्क्रुद्धः कृतान्तबलचोदितः । क्रोधसंरक्तनयनो रावणः सूतमब्रवीत् ।।6.106.1।।
Meaning
हीनवीर्यमिवाशक्तं पौरुषेण विवर्जितम् । भीरुं लघुमिवासत्त्वं विहीनमिव तेजसा ।।6.106.2।।
Meaning
विमुक्तमिव मायाभिरस्त्रैरिव बहिष्कृतम् । मामवज्ञाय दुर्बुद्धे स्वया बुद्ध्या विचेष्टसे ।।6.106.3।।
Meaning
किमर्थं मामवज्ञाय मच्छन्दमनवेक्ष्य च । त्वया शत्रोः समक्षं मे रथोऽयमपवाहितः ।।6.106.4।।
Meaning
त्वयाऽद्य हि ममानार्य चिरकालसमार्जितम् । यशो वीर्यं च तेजश्च प्रत्ययश्च विनाशितः ।।6.106.5।।
Meaning
शत्रोः प्रख्यातवीर्यस्य रञ्जनीयस्य विक्रमैः । पश्यतो युद्धलुब्धोऽहं कृतः कापुरुषस्त्वया ।।6.106.6।।
Meaning
यस्त्वं रथमिमं मोहान्न चोद्वहसि दुर्मते । सत्योऽयं प्रतितर्को मे परेण त्वमुपस्कृतः ।।6.106.7।।
Meaning
न हि तद्विद्यते कर्म सुहृदो हितकाङ्क्षिणः । रिपूणां सदृशं चैतन्न त्वयैतत्स्वनुष्ठितम् ।।6.106.8।।
Meaning
निवर्तय रथं शीघ्रं यावन्नोपैति मे रिपुः । यदि वाऽध्युषितो वाऽसि स्मर्यन्ते यदि वा गुणाः ।।6.106.9।।
Meaning
एवं परुषमुक्तस्तु हितबुद्धिरबुद्धिना । अब्रवीद्रावणं सूतो हितं सानुनयं वचः ।।6.106.10।।
Meaning