Sarga 75: The Burning of Laṅkā
लङ्कादाहः
laṅkādāhaḥ — word-by-word gloss for all 70 shlokas.
Jump to a shloka · 70 in this sarga
ततोऽब्रवीन्महातेजाः सुग्रीवो वानराधिपः । अर्थ्यं विज्ञापयंश्चापि हनुमन्तमिदं वचः ।।6.75.1।।
Meaning
यतो हतः कुम्भकर्णः कुमाराश्च निषूदिताः । नेदानीमुपनिर्हारं रावणो दातुमर्हति ।।6.75.2।।
Meaning
ये ये महाबलाः सन्ति लघवश्च प्लवङ्गमाः । लङ्कामभ्युत्पतन्त्वाशु गृह्योल्काः प्लवगर्षभाः ।।6.75.3।।
Meaning
ततोऽस्तङ्गत आदित्ये रौद्रे तस्मिन्निशामुखे । लङ्कामभिमुखाः सोल्का जग्मुस्ते प्लवगर्षभाः ।।6.75.4।।
Meaning
उल्काहस्तैर्हरिगणैः सर्वतः समभिद्रुताः । आरक्षस्था विरूपाक्षाः सहसा विप्रदुद्रुवुः ।।6.75.5।।
Meaning
गोपुराट्टप्रतोलीषु चर्यासु विविधासु च । प्रासादेषु च संहृष्टाः ससृजुस्ते हुताशनम् ।।6.75.6।।
Meaning
तेषां गृहसहस्राणि ददाह हुतभुक्तदा । प्रासादाः पर्वताकाराः पतन्ति धरणीतले ।।6.75.7।।
Meaning
अगरुर्दह्यते तत्र वरं च हरिचन्दनम् । मौक्तिकामणयः स्निग्धा वज्रं चापि प्रवालकम् ।।6.75.8।।
Meaning
क्षौमं च दह्यते तत्र कौशेयं चापि शोभनम् । आविकं विविधं चौर्णं काञ्चनं भाण्डमायुधम् ।।6.75.9।।
Meaning
नानाविकृतसंस्थानं वाजिभाण्डपरिच्छदौ । गजग्रैवेयकक्ष्याश्च रथभाण्डाश्च संस्कृताः ।।6.75.10।।
Meaning